________________
(२००)
नरपतिजयचर्याजयः स्यादजयः पतिते तथोत्ताने ॥ ७४ ॥ छत्रं ध्वजो नरः शस्त्रं गजो वाजी व यच्छिरानिपतेत्तत्र यत्सेना विजयं प्राप्नुयाद् ध्रुवम् ॥७५॥ पौरः प्राक्परतो यायी रविरानंदसंज्ञकः ॥ मध्याहे रात्रिनाथश्च नित्यमानंदसंज्ञकः ॥७६ ॥ इति श्रीनरपतिजयचर्यास्वरोदये चातुरंगम् ॥
मध्यगतत्वं ग्रहयोर्मध्ये ॥७१ ॥ ७२ ॥ अथ स्वस्थारिष्टमाह । अथ यस्य नगरदेशग्रहणेच्छा भवति तन्नगरस्य राज्ञो वा स्वस्थारिष्टमवाप्य परपुरविषयं गच्छेत् । तथा च । शत्रुवर्णाधिपे इति । वर्णाधिपाः पश्चादेवोक्ताः ॥ ७३ ॥ अथान्यत्पराजयलक्षणमाह । प्रथमहत इति । प्रथमं यः कश्चित्संग्रामे हतः सन् हंतुरभिमुखः येन हतस्तस्यैवाभिमुखमधोमुखः पतति । अथवा यस्य योधस्तस्य राज्ञोभिमुखस्तदा तस्य योधस्य राज्ञो वा विजयो ज्ञातव्यः । कुत्रापि प्रथमहतो भवतु सेनयोर्मध्ये यस्यैव राज्ञः प्रथमहत पुरुषः गजादयो वा हता भवंतु। यदभिमुखशिरा अधोमुखः पतति तस्यैव विजयः। उत्तरे मुखं तस्य पराजयः । अयमेवार्थः ॥ ७४ ॥ अमुमेवाथर्मग्रे फलयति । छत्रमिति । एतानि यदभिमुखे अधोमुखानि पतंति उभयोः सेनयोर्मध्ये ज्ञात्वा अपरसेनांत प्रतिगता जयं प्राप्नोति ॥ ७९ ॥ पोर इति । परिसंज्ञपूर्वाहे रविः अपराहे यायी मध्याह्ने आक्रंदसंज्ञकः । नित्यं शीतांशुराकन्दः पौरा जीवार्कचन्द्रजाः । केत्वारभृगुराहवः यायिनो बलिनस्तेषां जयदास्तेन्यथान्यथा। बलिनस्तेषां तेषां जयदाः अबला अस्तगा अन्यथा भंगदाः ॥ ७६ ॥ इति श्रीनरपतिजयचर्याटीकायां जयलक्ष्म्यां राजविजयोक्तचातुरंगव्याख्यानम् ॥ गजचक्रम् ॥
अथ गजचक्रम्॥गजाकारं लिखे. चक्रं सर्वावयवसंयुतम् ॥ अष्टाविंशतिशक्षाणि देयानि सृष्टिमार्गतः ॥१॥ मुखे झुंडाग्रनेत्रे च
कर्णशीर्षाधिपुच्छके ॥ द्विकं द्विकं
र च दातव्यं पृष्ठोदरे चतुश्चतुः ॥२॥ गजनामादिभान्यादौ वदनाद्गण्यते बुधैः ॥ यत्र ऋक्षे स्थितः सौरियिं तत्र शुभाशुभम् ॥ ३॥ मुखे शुंडाग्रनेत्रे च सौरिभं
"ltola
10
Producatta
PANWAVEL
MITrinimuuull
BHIMedium
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com