SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ जयलक्ष्मीटीकासमेता । ( १९९ ) उत्तरस्था इति । उत्तरस्था उत्तरवीथीगताः स्थायिग्रहाः दक्षिणस्थिताः कोर्थः दक्षिणवीथिगताः ॥ ६६ ॥ तत्र कृत्तिकाभरणीति तेन किम् । कृत्तिकाभरणीस्वाती नागबीथी । रोहिणीमृगशिरआर्द्रा गजवीथी । पुनर्वसुपुष्याश्लेषा ऐरेवती एतास्तिस्रो वीथय उत्तरस्थिताः । तत्र स्थायिग्रहा यदा भवन्ति यायिग्रहा दक्षिणमार्गे भवन्ति । तत्र दक्षिणः पथाः । मैत्रात्रिभं मृगाख्या स्यादनुराधाज्येष्ठामूलानि हस्तचित्राविशाखके अजवीथी । दहना आषाढयुग्मं पूर्वाषाढोत्तराषाढे । एतास्तिस्रो वीथयो दक्षिणे दक्षिणमार्गे स्थिताः अस्मिन्दक्षिणमार्गे यदि ग्रहा भवन्ति तदा यायिनो विजयो ज्ञेयः । यायिस्थायिनौ विपरीतस्थौ स्थायिग्रहा दक्षिणमार्गे यायिग्रहा उत्तरमार्गे यदि तदा स्थायिनो नगरभूपतेर्जयः ॥ ६७ ॥ अथान्यत् ॥ स्थायिनो ग्रहाः बुधगुरुशनयो मंदगतयो भवन्ति । कोर्थः । मन्दा भानौ चतुर्थगे इत्यादिदर्शनात् । तदा युद्धं तस्मिन्सये न ज्ञायते । अथान्यत् । पापा यदा । वक्रः पञ्चमषष्ठेर्के इत्यादिलक्षणेन वक्राः पापाः । शुभा बुधगुरुशुकाः शीघ्राः शीघ्राश्चार्के द्वितीयगे द्वादशैकादशे सूर्ये भजते शीघ्रतां पुनरित्याद्यर्थेन शुभाः शीघ्रगतयः तस्मिन्समये राज्ञामन्योन्यं दारुणं युद्धं जायते ॥ ६८ ॥ अथान्यत् । मन्दारेज्योत । अथान्यत् । शुक्र इति । सुगमम् ॥ ॥ ६९ ॥ अथ दिग्विजयिनां पथिकफलमाह । दूरादिति । यथा प्रत्यन्तस्था म्लेच्छा गुर्जरात्खुरसानतः दिल्लीपुराद्वा प्राचीदक्षिणां प्रति जेतुं प्रस्थितः तस्य दूराद्वा तत्र स्थानात्परं पुरं यदि शतं भवति पंथाः योजनं क्रोशो वा गव्यूतिर्वा तत्र कल्पना यदि शतद्वयं भवति गमनावधिः तदा यात्रानक्षत्रात् अग्रे यावत्संख्ये नक्षत्रे मार्गा धिपस्य शत्रुर्विद्यते । विजयिनो राज्यधिपस्य शत्रुर्वा पापाः तदानीं शतयोजने क्रांश गव्यूतौ वा शत्रुभिः सह युद्धं भवति । शुभग्रहश्चेत्तदा मार्गावरोधः । मित्रं वा सग्रह: तथा मित्रसमागमः । तत्र पुंसि विकल्पना । स्वग्रिहश्वत्तदा स्त्रिया योषिता सह संयोगो विरोधो वा । शतं चेत्पंथा न भवति । तदा दशयोजनाभ्यन्तरे विकल्पना । अथवा योजनावधिः पंथाः तदाभ्यन्तरे एव । अथवा यात्रानक्षत्रानन्तरनक्षत्रमतिक्रम्य शत्रुमित्रपापशुभानामेकतमस्तिष्ठति तदा शतयोजनादुपरि द्वितीये शतके दशयोजनादुपरि द्वितीयदशके क्रोशादुपरि द्वितीयक्रोशे । एवं नक्षत्रे शतदशकयोजनं वा विकल्पयेत् । अत्र विचारे आत्मबुद्धिरपि विचारविषयिणी बोद्धव्या ॥ ७० ॥ शत्रुपक्षस्थितैः सौम्यैर्मार्गरोधकरो भवेत् ॥ एकरेखागतौ शत्रुमृत्युदौ शत्रुतोऽध्वनि ॥ ७१ ॥ यत्र रेखागते मित्रे मार्गे मित्रस्य संगमः ॥ मित्राभ्यंतरगे शत्रौ मित्रत्वमुपजायते ॥ शत्रुमध्यगते मित्रे शत्रुत्वमुपजायते ॥ ७२ ॥ शत्रुवर्णाधिपे नीचे दुर्बलेऽस्तंगतेपि वा ॥ तथैव राष्ट्रपे नीचे राष्ट्रभंगो विचक्षणैः ॥ ७३ ॥ प्रथमहतः पुरुषश्चेदधोमुखो हंतुरभिमुखः पतति ॥ हंतुः परा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy