________________
(१९८)
नरपतिजयचर्याभूभुजाम् ॥ ६३ ॥ शीघ्राः सर्वे ग्रहा राज्ञां विरोधः स्याबुधं विना ॥ यदा सर्वे वक्रगतास्तदा युद्धं सुदारुणम् ॥ ६४ ॥ यायिनः शीघ्रगाः सर्वे स्थायिनो वक्रगा यदि ॥ यायी विजयते तत्राऽन्यथा स्यात्स्थायिनो जयः ॥६५॥
अधुना युद्धलक्षणमाह । यायिनः इति । केतुशुक्रराहुभौमा एते वेधरेखागता यायिनो ग्रहाः । स्थायिनश्च । जीवः सौरिस्तुहिनकिरणस्यात्मजश्चेति पौरा एते स्थायिनः। सप्तशलाकाचतुरंगचके परं वेधगता यदि तदा संग्रामो दारुणो भवति । परस्परं द्वादशारचक्रे सप्तमगा आपि यायिस्थायिनः तदापि जायते दारुणो रणः ॥६१॥ अथापरयोगमाह । परस्परमिति । क्रूराः सौम्याश्च यस्य येऽरयः शत्रवः वेधरेखागता यदि भवंति एषां चंद्रयोगे सति जायते दारुणो रणः ॥ ६२ ॥ अथान्यलक्षणमाह । यदिश इति । कृत्तिकादिसप्तसप्तपूर्वादिदिकचतुष्टये नक्षत्राणि । तेन कृत्तिकादिसप्तनक्षत्रस्थाः ग्रहाः शीघ्रगा भवंति । पश्चिमदिकसंस्थितानां राज्ञामभिमुखाभवंति । तेन किं स्वस्वाभिमुखाः शीघ्रग्रहा भवंति । तद्राज्ये संग्रामो जायते । दक्षिणोत्तरयो राज्ञोर्यस्य दक्षिणस्थास्तस्य तेऽभिमुखाः ॥ ६३ ॥ अथ सामान्यमाह । शीघ्रा इति । शीघ्राः सर्वे यस्मिन्काले ग्रहा भवंति तस्मिन्कालेऽन्योन्यं भूपवैरं भवति । बुधोत्र शीघ्रो न गृह्यते । यस्मिन्काले सर्वे वक्रगतयो भौमाद्या भवंति तस्मिन्काले परस्परं दारुणं युद्धं भवति ॥ ६४ ॥ यायिन इति । यायिनो यायिग्रहाः स्थायिनः स्थायिग्रहाः । अन्यथेति कोर्थः यायिग्रहा वक्रिणः स्थायिनो गुरुबुधशनयः शीघ्राःशीघ्रगतयः तस्मिन्काले यत्र युद्धं तत्र नागरस्य जयः ॥ ६५ ॥ उत्तरस्थाः स्थायिनश्चेद्यायिनो दक्षिणस्थिताः ॥ यायिनो विज. यस्तत्र व्यस्ताः स्थायी जयप्रदाः ॥ ६६ ॥ कृत्तिका भरणी स्वाती नागवीथी प्रकीर्तिता ॥ रोहिण्याद्याविभात्तिस्रो गजैरावतकर्षभाः ॥३७॥ स्थायिनो मंदगा राज्ञां तदा युद्धं न जायते ॥ पापा वक्राः शुभाः शीघ्रास्तदा युद्धं सुदारुणम् ॥६८॥ मन्दारेज्या वक्रगताः स्थायिनो विजयप्रदाः ॥ शुक्रो वक्रो गुरुः शीघ्रः स्थायिनां मृत्युकारकः ॥ विपरीतौ शुक्रगुरू यायिनांमृत्युकारको ॥ ६९ ॥ दूरादागच्छतो राज्ञां धिष्ण्येधिष्ण्ये शतं वदेत् ॥ शतांतरे तु दशकं योजनं तु दशांतरे ॥ ७० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com