________________
(१२)
नरपतिजयचर्याज्ञेया गजडास्ते यथाक्रमम्॥१३॥यदि नाम्नि भवेद्वर्णः संयुक्ताक्षरलक्षणः॥ ग्राह्यस्तदादिमो वर्ण इत्युक्तं ब्रह्मयामले ॥ १४ ॥ इति वर्णस्वरचक्रम् ॥ मृतस्वराइली बालो बालादृद्धस्वरो बली ॥ वृद्धाकुमारो बलवान् कुमारात्तरुणो वली ॥ १५ ॥
अथ वर्णस्वरमाह । कादिहांतानिति । स्वरादधः अ इ उ ए ओ स्वराणामधः हकारांतान् ककारादारभ्य हकारपर्यंतान् वर्णान् विलिखेत् किंविशिष्टान् कादिवान् ङञणवर्णपरित्यक्तान् कवर्गचवर्गटवर्गाणां पंचमवर्णा उत्रणास्तान् परित्यज्य.लिखेत्। तिर्यक्पंक्तिक्रमेण लिखेत् पंचत्रिंशत्प्रकोष्ठ के पंचाधिकत्रिंशत्प्रकोष्ठं कृत्वा यथा चक्रम् ॥ ॥११॥नरनामादिमो वर्ण इति । अत्रोदाहरणे देवदत्तस्य नाम्नि आद्यवर्णो दकारः स दकार ओकारस्वराधो लिखितोऽस्ति अतो देवदत्तस्य वर्णस्वर ओकार यज्ञदत्तस्य नाम्नि यवर्गीयो यकारः सतु उकारस्वराधो लिखितस्तिष्ठति । एवं यज्ञदत्तस्य वर्णस्वर उकारः ॥१२॥न प्रोक्ता इति ॥ चेद्भवंतीति । यत्र कुत्रचिद्देशे विषये ङजणा वर्णा भवंति तदा तत्तत्फलपरिपाकः गजडानां फलेन समः ॥१३॥ अथान्यविधिमाह । यदि नाम्नीति । यस्य कस्यचिन्नानि आदिमो वर्णः संयुक्तो भवति । तदा तयोर्वर्णस्वरः को ग्राह्य इत्याकांक्षयाह । ग्राह्यस्तस्यादिमो वर्णस्तदशादर्णस्वरः । यथा श्रीपतिरिति कस्य. चिन्नाम तत्रशकारोपरि योवर्णः रेफस्तस्यादिमः शकार इकारादधस्तिष्ठति तद्वशाच्छ्रीपतेर्वर्णस्वर इकारः। एवं सर्वत्र विचारः। अथ यस्य कस्यीचन्नामानि बहूनि भवंति तत्र मात्रास्वरः कस्य नाम्नः प्रमाणेन ग्राह्य इत्याकांक्षया स्वरज्ञा एवं वदंति । लंपटाचार्यभाषिते-"बहूनि यस्य नामानि नरस्य स्युः कथंचन । ततः पश्चाद्भवं नाम ग्राह्यं स्वरविशारदः" सुगममन्यस्य । अथान्यवर्णस्वरं प्रति ऊचुः "बवौ शसौ पखौ चैव यजाविति परस्परम् । उभौ तुल्यफलौ भिन्नस्वरस्याधः स्थितावपि" । तेन किं जयपराजयादिविषये जयपराजयौ तुल्यौ भवतः । अथ ग्रहवर्णस्वरनिर्णये लंपटाचार्यः। “यदा स्वरादिकं नाम तदा ग्राह्यं पुरोऽक्षरम् । देशे ग्रामे पुरे हर्ये नरे नामादिवर्णतः । वर्णस्वरोद्भवं तेषां फलं सम्यक् प्रतिष्ठितम् । स्वरस्य मात्रासंज्ञोक्ता न वर्णत्वं तु यामले॥ ॥ १४ ॥ इति वर्णस्वरचक्रम् ॥ मृतस्वरादली बाल इति ॥ १५ ॥ शाकयुष्यौ तथा हस्तश्चित्रायां द्वादशाब्दिकः॥ इंद्रभं च गजाः सप्त रुद्रा वर्षे च मानकम् ॥ १६ ॥ सार्पपूर्ण तथाश्लेषा गज. बाणायने बलाः ॥ वह्निषड्बाणवह्निश्च नेत्रे ऋतुपलानि च ॥ १७॥ गजा रूपं गजा धर्म मासे मानं प्रकीर्तितम् ॥ नवपूर्ण नववेदाः पक्षभागप्रमाणकम् ॥ १८॥ ऋक्षवह्नि भवेन्मानं दिनमानक्रमेण च ॥ भवही घटिकामाने त्वंतरोदयगे स्वरे ॥ १९ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com