________________
जयलक्ष्मीटीकासमेता।
(११) पञ्च स्वरा मायाद्याश्चक्रभेदाः । चतुरस्रं यच्चक्रं तन्मायाख्यभेदम् । तत्राकारोदय यस्य चतुरस्रं चक्रं ग्राह्यं पूजनीय वा तदाकारोदये चक्र तत्र पूजयेत् । इकारेऽईचक्रम् । उकारे त्रिकोण चक्रम्।एकारे षत्रिकोणम् ।ओकारे वर्तुलं चक्रम् । अकारादिषु धरादिभूतपंचकम् । पृथिव्यादिपञ्चकम् । अकारोदये पृथिवीगतप्रश्नः । इकारोदये जलगतप्रश्नः । उकारोदयेऽनलगतप्रश्नः । एकारोदये वायुगतप्रश्नः। ओकारोदये आकाशविषयप्रश्नः । ऊर्ध्वगते प्रश्नं वदेत् । तेपि स्वरा गंधादिविषयाः। तत्राकारो गंधविषयः। इकारो रसविषयः । उकारो रूपविषयः । एकारः स्पर्शविषयः। ओकारः शब्दविषयः। एतावता अकारादिस्वरोदये तत्तदुक्तप्रश्नविषये तत्र शुभाशुभं वदेत् । अयमर्थः गुरूपदेशादेव ज्ञायते । अस्यार्थस्य प्रयोजनं किमपि न व्याख्यातम् । अस्मादधिकतरोर्थः सद्गुरूपासनया बुध्यते इष्टदेवताप्रसादादा । तथा च वक्ष्यति । "पिंडं पदं तथा रूपं रूपातीतं निरञ्जनम् ॥ स्वरभेदस्थितं ज्ञानं ज्ञायते गुरुतः सदा" अत्र वाइमात्रं प्रकटम् । न तु परमार्थतस्ते गुरवः ये पिंडं पदं तथा रूपमित्यादि प्रत्यक्षीकृत्य दर्शयति।। यथायं गौः अयमश्व इति । एतेन किमुक्तं भवति । स्वराभ्यासी सदा भूयात् ॥ ८॥ अथाकारादिस्वराणां मुख्यप्रयोजनमुपदिशति । अकाराद्या इति । अकारादिपञ्चस्वराणां मात्रादयोष्टौ भेदाः पृथक्पृथक् पंचसु भवंति ॥९॥ तत्राष्टौ भेदान् वक्तुं मूलमुपदिशति । प्रसुप्तो भाषत इति । येन नाना मर्त्यः प्रसुप्तो भाषते नवा शब्दित आगच्छति तत्र नाम्नि आद्यवणे या मात्रा स मात्रास्वरः । यथा देवदत्तनाम्नि आयवर्गों दकारस्तत्र एकारमात्रा विद्यते अतो देवदत्तस्य मात्रास्वरः एकार एव । पुनर्यथा यज्ञदत्तस्य नाम्नि यकार आद्यवर्णस्तत्रांतर्भूतः अकारो विद्यते ततो यज्ञदत्तस्य मात्रास्वरोऽकारः । एवं सर्वेषां नाम्नि एवं कृष्णादिनाम्नां मनुजानां मात्रास्वरग्रहणे प्रांचशिष्टानां भाषया इस्वरो ग्राह्य इत्यर्थः । एवं हृषीकेशादिनाम्नि। अथ च महाभाष्ये ऋकारे इकारभागः प्रदर्शितः। अतो ऋकारस्य मात्रास्वर इकारोपि ॥ १०॥ इति मात्रास्वरचक्रम् ॥ कादिहान्ताँल्लिखेद्वान् स्वराधो ङा- | अ | इ णोज्झितान्॥तिर्यक्पंक्तिक्रमणैव पंच- क | ख त्रिंशत्प्रकोष्ठ के ॥ ११ ॥ नरनामादिमो छ वर्णो यस्मात्स्वरादधः स्थितः ॥ स
खरस्तस्य वर्णस्य वर्णस्वर इहोच्यते ॥ १२ ॥ न प्रोक्ता ङाणा वर्णा नामादौ संति ते नहि ॥ चेद्भवंति तदा | बा | कु | यु |
|
ढ
।
त
न
।
श
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com