________________
(१०)
नरपतिजयचर्याएकारः सूर्यः । ओकारश्चंद्रः । अतःअकारानुरोधात् पंच ह्रस्वा एव गृहीताः। यतस्त एव शुभाशुभं प्रकटीकुर्वति । अकारेण यत्फलं आकारेणापि तदेव फलम् ॥ अस्तदोपादकारश्चेत्पीडितः आकारस्यापि स एव दोषः । एवमिकारादावपि बोद्धव्यम्॥२॥ ज्ञेया अतः स्वरा इति ॥ ३ ॥ अथैषां ग्रहणसिद्धिं प्रकटयति। लाभालाभे सुखं दुःखमिति । एषां स्वराणामुदये लाभप्रश्ने लाभं विजानीयात् । तथा अलाभमापि। सुखप्रश्ने मुखं दुःखमपिारोगिघातादीनां जीवितमरणप्रश्ने जीवितं मरणं च विद्यात् । एवं सर्वप्रश्ने स्वरा एव फलप्रकाशकाः ॥ ४ ॥ स्वराणां सर्वत्र प्रधानतामाह । स्वरादिमात्रिका इति । सर्वेषां चराचराणां उच्चारो नाम ग्रहणम् अकारादिमात्रिकाभिरेवोतान ह्यकारादिमात्रिकां विना वर्णा उच्चारयितुं शक्याः । अतो मातृकाभिर्जगत्रयं व्याप्तम् अत एव प्रश्ने स्वरा एव फलप्रकाशकाः ॥५॥
अकाराद्याः स्वराः पंच ब्रह्माद्याः पंचदेवताः ॥ निवृत्त्याद्याः कलाः पंच इच्छायं शक्तिपंचकम् ॥६॥ मायाद्याश्चक्रभेदाश्च धरायं भूतपंचकम् ॥ शब्दादिविषयास्ते च कामवाणा इतीरिताः ॥७॥ पिंडं पदं तथा रूपं रूपातीतं निरंजनम् ॥ स्वरभेदस्थितं ज्ञानं ज्ञायते गुरुतः सदा ॥ ८ ॥ अकारायाः स्वराः पंच तेषामष्टा भिदस्त्वमी॥ मात्रा वर्णो ग्रहो जीवो राशिर्भ पिंडयोगको ॥९॥प्रसुप्तो भाषते येन येनागच्छति शब्दितः॥ तत्र नामाघवणे या मात्रा मात्रास्वरः स हि ॥१०॥ इतिमात्रास्वरचक्रम् ॥
अथ पुनः स्वराणामेव प्रधानतां प्रकटयति। अकाराद्या इति । अ इ उ ए ओ एते पंच स्वराःब्रह्मादयो देवाः। तत्र अकारोब्रह्मा । इकारो विष्णुः । उकारो रुद्राएकारःसूर्यः । ओकारश्चंद्रमा भूमिश्च । अन्योर्थः । प्रयोजनका अकारस्वरोदये ब्रह्माणं ध्यात्वा कर्म कार्यम् । इकारोदये विष्णुं ध्यायेत् । उकारोदये रुद्रम् । एकारे सूर्यम्। ओकारोदये चंद्रम् । एवं तत्तदुदये निकृत्त्याद्याः पंच कलाः।अकारोदये निवृत्तिनामकला। इकारे प्रतिष्ठानामकला। उकारे विद्याप्रतिष्ठिता । शांतिरेकारे स्थिता । ओकारे आत. शांतिः । निवृत्तिशब्देन यात्रानिवृत्तिः। अकारोदये यदि प्रश्नः अकारश्चेदनस्तामतस्तदा निवर्तनं वदेत् । इकारोदये प्रतिष्ठाभवति । उकारोदये प्रश्ने रुद्रं ध्यात्वा विद्या वाच्या। एकारोदये सूर्य ध्यात्वा शांतिप्रश्ने शुभं वदेत् । ओकारे चंद्र ध्यात्वा आतिशांतिर्वाच्या। अतिशांतिमुक्तिः। मुक्तिप्रश्ने मुक्तिर्वाच्या। इच्छाद्यं शाक्तिपंचकम् । अकारादिपंचसुक्रमेण इच्छा ज्ञानं प्रभाश्रद्धा मेधा इदं शाक्तपंचकं स्थितम्।तत्र उदये तदाश्रितस्योदयो ज्ञातव्यः ॥ ६ ॥७॥ अथान्यत् । “मायाद्याश्चक्रभेदाश्च धरायं भूतपंचकम् । गंधादिविषयास्ते च कामबाणा इतीरिताः ” । अकारायाः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com