________________
(१९६)
नरपतिजयचर्याअधुना स्थानस्थितयोधानां फलमाह । गुरुशुक्राविति । चातुरंगचके यन्नक्षत्रस्थी गुरुशुक्रौ तत्रस्था योधाः पलायंते अजयं प्राप्नुवंति ॥४७॥ तत्करणाय निदर्शनं दर्शयित्वा विधानमाह । चक्राणीति ॥४८॥ य इति । षड्वर्गवलम् उच्चस्वगृहमित्रगृहशुभगृहाणि एतानि दशबलानि षड्बली वा स्थानदिककालनिसर्गचेष्टा एतानि षड्बलानि पद्धतिकारोक्तानि चंद्रबलादली वा चंद्रबलेन यो ग्रहो यस्य राशिसंक्रमणकाले गोचरशुद्धो यातःस ग्रहो बली । यस्य वर्णस्याधिपः स बली निगादतः एवं लक्षणयुक्तग्रहजातवर्णः स सेनामुखे सेनाग्रे स्थापनीयः सेनापतिर्वा कार्यः । यतस्तदलानामखिलानां बलं भवति । यथा राज्ञो विजयिनः तस्य यथा यात्रागुणा भवंति । तत्फलं राजफलं सर्वबलानां भवति न सर्वाणि बलाान यात्रां कुवैति ॥ ४९ ॥ अथ सेनाधिपकर्तव्ये निषेधमाह । यदिति।यस्मिन्काले सेनाधिपे कर्तव्ये तस्मिन्काले चंद्रदिवाकरौ जन्मनक्षत्रगतौ जन्मराशिगतौ वा भवतः तौ सेनापती न कार्यों यस्य बालवृद्धमृत्युस्वरास्तत्काले भवंति सोपि न कार्यः यदि स देवसेनाधिपो भवति इंद्रोपि भवति तथापि न कार्यः ॥५०॥ शिशुवरी रोगयुतः सुरापो भीरुस्तथा भीरुकुलोद्भवश्च ॥ गुर्वार्यदेवद्विजनिंदको यः कार्यों न सेनाधिपतिः स भूपः ॥५१॥ सर्वतोभद्रचक्रादौ यस्य वेधो न विद्यते ॥ तं वीरं कल्पयेत्तत्र चातुरंगे महाहवे ॥ ५२ ॥ क्षेत्रनामाधिको वीरो रिपुनामाधिकस्त यः ॥ तस्यैव दापयेदीक्षां जयाख्यां जयवद्धिनीम् ॥ ५३॥ उच्चभूम्युत्तमं क्षेत्रं समभूमिस्तु मध्यमम् ॥ निम्नभरधर्म क्षेत्रं त्रयस्तत्राधिदेवताः ॥ ५४ ॥ उच्चभूम्यधिपो राहुः समभूमेर्दिवाकरः ॥ निम्नभूमीश्वरश्चन्द्रो यथा क्षेत्रं तथा फलम् । आत्मसैन्यस्य देवेशि राहुक्षेत्रं प्रदापयेत् ॥ ५५ ॥
अथान्यसेनाधिपकरणे निषेधमाह । शिशुरिति । एवं विशिष्टोपि न कार्यः ॥५१॥ अथ चातुरंगसूचना । सर्वतोभद्रचकादाविति । सर्वतोभद्रचक्रे यस्य नक्षत्रवर्णराशिस्वरतिथिषु यस्य पापग्रहवेधो न भवति । तथांशचक्रेपिासूर्यकालानले चक्रेयस्यानिष्टफलस्थाने नक्षत्रं पतितं न भवति यस्य बालवृद्धस्वरांकितवर्षमासदिनादिकं न भवति एवं विशिष्टं वारं कल्पयेत् । कोर्थः । सेनामुखे कर्त्तव्यः सेनापतिश्च पूर्वोक्तशिशुवरीत्यादिकं वर्जथित्वा ॥ ५२ ॥ अन्यं निरूप्य सेनाधिपकरणे बलमाह । क्षेत्रनामाधिक इति । क्षेत्रनामगतो वीरोधिको भवति । क्षेत्रनाम्रो यो वर्गः तस्य यो भक्ष्यः स वीरो न कार्यः किंतु क्षेत्रवर्गस्य यो भक्षकः स क्षेत्रनामाधिकः । यथा अवर्गो गसडस्तस्य भक्ष्यो नागः तदर्गः गरुडवों वीरः कल्प्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com