________________
जयलक्ष्मीटीकासमेता ।
( १९५)
ग्रहश्चोपग्रहो वापि बलवाञ्शत्रुवीक्षितः ॥ सेनामुखे बली शूरो रेखाविद्धं हनिष्यति ॥ तस्यैव दापयेद्दीक्षां जयाख्यां जयवर्द्धिनीम् ॥ ४१ ॥ वक्रगे मित्रसंदृष्टे वाममार्गान्निवर्तते ॥ अतिचारे मित्रदृष्टे मध्यमार्गान्निवर्तते ॥ ४२ ॥ उच्चगो बलसंयुक्तः पुष्टो मित्रैर्विलोकितः ॥ आगच्छेदक्षतो युद्धे निकृत्य परसैनिकम् ॥४३॥ अस्तगो दुर्बलः खेटः शत्रुग्रहनिरीक्षितः॥ तद्गृहांगं समामोति शत्रुबंधनजं भयम् ॥ ४४ ॥ भौमादिभिः खड्गपातः शुक्रेज्याद्यैस्तु कुंतजः॥ सोमसूर्यादिभिर्बाणान्मं दाद्यैर्मुद्गरोद्भवः ॥४५॥ राह्वादिभिर्विषभयं केत्वाद्यैर्वचनाद्भयम् ॥ बुधायैः सर्वघातः स्यात्ततश्चोत्पात को बुधैः ॥ ४६ ॥
ग्रहश्वपग्रह वापि यो बली तदंगे यो भटः सेनाग्रगः स रेखाविद्धं चातुरंगचके यं ग्रहं वेधयति एकरेखया तद् ग्रहांगाद्दिष्ट सेनामध्ये हनिष्यतीति ॥ ४१ ॥ एवं विशिष्टग्रहसेनांग यद्द्वजादिग्रहजा वर्णा राजानौ वा परसैन्यं गत्वा वामेन मार्गेण निवर्तते प्रत्यागच्छति । एवं विशिष्टो निरूपितो यः स मध्यमार्गेणैव परावृत्तो भवति शत्रुतेनां विनिर्भिद्य आगच्छेत्पुनरक्षतः अतिचारमित्रदृष्ट्या एव ग्रहः पुरुषः ॥ ४२ ॥ यो ग्रहः उच्चगः बलसंपत्रमित्रदृष्टः तस्य ग्रहस्य यदंगं याविस्थायिराशोमध्ये अश्ववाराधगं परं घातयित्वा अक्षत आगच्छति । यथाश्वाधिपौ शुक्रगुरू उच्चस्थौ मित्रदृष्टौ उभयोः सेनयोरप्यश्ववाराः परं घातयित्वा अक्षता निवर्तते ॥ ४३ ॥ ४४ ॥ अधुना चातुरंगचक्रविद्धनक्षत्रांगानां सेनानां घातमाह । भौमादिभिरिति । भौमादिभिर्भीमभौमोपग्रहैविद्धे खड्गपातः शुक्रबृहस्पत्यारुपग्रहवेधेन कुंतजो घातः एवमन्येषामपि । अयं सर्वघाताय उक्तः स उपपापवशात् ॥ ४५ ॥ ४६ ॥
गुरुशुक्र यत्र संस्थौ तत्र स्थाने पराजयः ॥ तस्मात्तत्र प्रकुर्वीत स्वरज्ञैर्दृढंरक्षणम् ॥ ४७ ॥ चक्राण्युक्त्वा सर्वतोभद्रमुख्यान्युर्वीशानां भंगहेतूनि दुर्गे ॥ मुख्यं संख्ये दुर्गमध्येपि सैन्ये सेना - नाथं वच्मि तत्तगणांश्च ॥ ४८ ॥ यो बली स्याद्दशबलः षड्वली चेंदुना बली ॥ सेनामुखे स कर्तव्यस्तद्बलादखिलं बलम् ॥ ४९ ॥ यजन्मभे चंद्रदिवाकरौ स्तो यस्यास्तबालस्थविरा: सुराः स्युः ॥ स देवसेनाधिपविक्रमपि कार्यों न सेनाधिपतिस्तदानीम् ॥ ५० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com