SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ (१९४) __नरपतिजयचर्याविप्रा जाताः धर्महाः सीरभुक्तौ नागरा इति भौमजा वह्निजीविनः स्वर्णघटकाः लोहघटकादयः ॥ ३५ ॥ बृहस्पत्युद्भवा विप्रा भृगुजाः कविगायकाः ॥ शूद्रादयः केतुजाता निषादा राहुसंभवाः ॥ अंत्यजाः शनिसंभूता मृतिं यांत्यधिपेऽस्तगे॥३६ ॥ शीघ्रगाश्चरराशिस्था आरोहंत्यग्रतो रिपुम् ॥ शीघ्रगाः स्थिरराशिस्थाः पश्चात्प्राप्तं प्रवर्तते ॥ मंदगाः स्थिरराशिस्थाः पालयंति निजां चमूम् ॥ ३७॥ शनौ नीचगते पौरा रवौ नीचगतेध्वगाः ॥ बंधनं शत्रसंयुक्तं मृत्युः शत्रुनिरीक्षिते ॥ सक्षतौ शत्रुसंयुक्तौ परयुक्तौ भयं नहि ॥३८॥शीघ्रगा मित्रसंयुक्ताः शुक्रणालोकिता यदि ॥ तथा संधि विजानीयात्सेनयोरुभयोरपि ॥ ३९ ॥ योषितांशगते चंद्रे योषिद्हविलोकिते॥ योषिल्लग्नगते वापि तदा स्त्री सैन्यपालिका ॥ ४०॥ बृहस्पतिजाता ब्राह्मणाः भृगुजा नटादयो गायकाश्च शूद्रादयः केतुजन्मिनः निषादा राहुजाः पर्वतवासिनः किरातादयःअंत्यजाश्चंडालादयः शनैश्चराज्जाताः। प्रयोजनम् संग्रामे चतुर्विधे वर्णपे नीचराशिस्थे इत्यादिग्रहलक्षणस्थितम् । तद्गता मृतिं लभन्ते येषां राष्ट्रभंगो वा राष्ट्रात्पलायन्ते ॥ ३६ ॥ अथान्यत् । शीघ्रगा इति । एवं विशिटस्य सेनांगरथादि प्रथमत एव तदंगं शत्रुप्रतिगच्छतीत्यर्थः ॥ एवं विशिष्टग्रहस्यांग पश्चात्प्राप्त प्रतिगच्छतीत्यर्थः ॥३७॥ शनौ नीचगते इति। शनौ नीचगते अस्तंगते वा शत्रुसंयुक्त स्थायी नृपः पुरस्थो बंधनं प्राप्नोति शत्रुवीक्षिते मरणं युक्ते दृष्टे च बन्धनं मरणं च । एवं पौरा अपि जना रविजाः क्षत्रवर्णाः स्युरित्यायुक्ताः स्वस्वे ग्रहे शत्रुयुक्तेक्षिते तत्तस्य मरणं भवति । अथ रवौ नीचग इति । रखौ नीचगते शत्रुग्रहयुक्तेक्षिते परपुरगतो राजा यायी सबन्धनं मरणं प्राप्नोति युक्ते बन्धनं युक्तदृष्टे मरणम् । तथा दिग्विजयिनां कटके ये रविजादयस्तेषामधिपे नीचगे शत्रुयुक्तनिरीक्षिते तस्यापि बंधनं मरणं भाति । यायिस्थायिनौ द्वौ ग्रहौ शत्रुसंयुक्तौ रविसौरास्तदा द्वौ सक्षतौ वाच्यौ । परयुक्तौ शुभयुक्तौ तौ तदा अक्षतौ तिष्ठतः ॥ ३८ ॥ शीघ्रगा इति । सर्वग्रहाःशीघ्रगा मित्रदृष्टयुक्ताः शुक्रणालोकिता वा तदा उभयोः संधि विजानीयात् ॥ ३९ ॥ अथान्यत् । ज्ञानं वा कर्तव्यं तमाह । योषितांशगति । वृषादिसमराशिनवांशे चन्द्रे योषिद्ग्रहेण शुक्रेण विलोकिते अस्तियोगे प्रश्नः। द्वयोः कटकयोर्मध्ये सैन्यपालिका स्त्री श्रूयते तदा.स्त्री वाच्या । अथवा यदि पुरुषग्रहस्य कस्यापि बलं न भवति ॥ सैन्यपतिकरणाय चन्द्रबलमधिकं भवति । योषितांगे गते दृष्टे सति तदा स्त्री सैन्यपालिका कर्तव्या ॥४०॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy