________________
( १९२)
नरपतिजयचर्यावक्रमंदगताः खेटा नारोहंति तदा चमूम्॥अस्तगाः शत्रुहस्था ग्रहा मृत्युप्रदायकाः ॥ राहुशत्रुभिराक्रांतौ रोधितौ म्रियते गमे ॥ २१॥ स्थिरराशिगताः खटाः स्थिरांशकगताअपि॥ स्थायिनो बलमापन्नं स्थिता जेष्यंति ते रिपून् ॥ २२ ॥ द्विस्वभावगता ये च द्विस्वभावांशके ग्रहाः॥समयुद्धं भवेत्तत्र भूमिस्तस्य जयं वदेत् ॥ २३ ॥ चरराशौ स्थिरांशस्थौ धावंतं प्रतिधावति ॥ मित्रदृष्टः समुदितो यो ग्रहः स जयी भवेत् ॥२४ ॥ स्थिरलग्ने चरांशे यो धावेद्वीरः पराङ्मुखम् ॥ द्विस्वभावे स्थिरांशस्थे स्थिरतामवगच्छति ॥ २५॥ वक्रमंगदता इति । यो वक्रगतिमंदगतिर्वा ग्रहः स परसैन्यं नारोहति अन्वेषणाय परसैन्यं प्रति नागच्छति । यथा चंद्रः शीघ्रगःचरलग्ने चरांशे यदि भवति तदा रथाधीशो रथमारुह्य शत्रुगवेषां कर्तुं गच्छतीत्यर्थः । एवं भौमबुधौ यदि शीघ्रौ भवतः चरे चरांशे वा तदा पदात्यगः शत्रुगवेषया गच्छति । एवं गुरुशुक्रो चरे चरांशे भवतः शीघ्रगौ च तदाश्ववारो गवेषया गच्छति । एवं सर्वग्रहाणां ज्ञेयम । ये च रथांगाद्य. धीशा वक्रगतयः स्थिरे स्थिरांशे च तदा तेऽग्रतोऽरिचमूं नारोहंति अरिसैन्यं प्रति गंतुं नोत्सहते । येस्तगता भवंति शत्रुगृहगा वा तद्ग्रहांग सेनांगं मृत्युमामोति । यथा तुरगाधिपो गुरुशुक्रो अस्तमितौ यदि शत्रुगृहगौ वा तग्दहांगसेनांगं मृत्युमामोति । राहुशत्रुभिरिति । राहुणाक्रांतो यो ग्रहः शत्रुभिराक्रांतो वा तद्हस्यांगगवेषया गतमपि म्रियते । यथा भौमबुधौ राहुक्रांतौ शत्रुभिर्वा तत्र गता पदातयः शत्रुगवेषया म्रियते । एवं सर्वांगेपि बोद्धव्यम् ॥ २१ ॥ स्थिरराशिगता इति । ये स्थिरराशिस्थिता भवंति स्थिरांशगता अपि तदा स्थायिनां बलमापन्नं भवति तदा स्थायी जयति । कोर्थः हंतुमागतमपि शत्रोः संघातस्य सेनांगं स्थायिनं मारयति । स्थायी स्थिरस्थायी पुरुषो वा ॥ २२ ॥ द्विस्वभावगता इति । समयुद्धोप स्थायिनो जयो भवति ॥ २३ ॥ चरराशाविति । एवं विशिष्टो यो ग्रहस्तस्य सेनांग धावंतं प्रति धावंतमागतं प्रति असौ धावति हेतु धावति । यथा गजाधीशौ राहुकेतू तौ चरराशौ स्थिरांशस्थौ चेत्तदा हंतुमागतमापि तं गजारूढं प्रति धावति । एवं धावंतं प्रति धावतीत्यर्थः।यो ग्रहो मित्रजयी मित्रदृष्टःअनस्तमितःतद्रहांगं जयं लभेत।यथा तुरगाधीशौगुरुशुक्रौ मित्रगृहे मित्रदृष्टौ उदितौ च तदाश्वानां अश्ववाराणां जयो भवति एवं सर्वेषाम् ॥ २४ ॥ स्थिरलग्ने चति । स्थिरलग्ने चरांशे यो ग्रहो भवति तदंगं स्थादिकं पराङ्मुखं प्रति धावति । एवं विशिष्टं ग्रहांग स्थिरमेव संग्रामभूमौ भवति न पलायते न योत्स्यति ॥ २५ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com