________________
जयलक्ष्मीटीकासमेता। .. ( १९१) घोरकः कुजात् ॥ १३ ॥ सौम्याद्वायूल्बणः क्रोधो जीवात्स्याद्विकचः कचः ॥ ब्रह्माथ भार्गवो दैत्यो ग्रहाद्रह उपग्रहाः ॥१४॥ शनैश्चराच्चित्रगुप्तः काले केतुस्तथा यमः ॥ राहोःशेषस्तथा शंखः कुलिकश्च तृतीयकः॥क्रमाकेतोस्तु त्रिशिखः शिखी स्याळूमकेतुकः ॥१५॥
अथ चातुरंगसैन्यमाह। चातुरंगमिति ॥९॥ तेषां स्थानमाह । अश्वादिति ॥ १० ॥ अथ वेधमाह । वद्विभादिति ॥ ११ ॥ १२ ॥ अथ सर्वेषां ग्रहाणामुपग्रहाः पृथगाह । आदौ रवः, खेरिति । सूर्याधिष्ठितनक्षत्रात् अष्टमे वह्नयादयस्तिष्ठति रविनक्षत्रादष्टमे वह्निः वह्नितोष्टमे क्षयः क्षयादष्टमे कालः एवमष्टमेऽष्टमे चंद्रादीनामुपग्रहाणां स्थितिज्ञातव्या ॥ १३ ॥ अथ बुधादीनामाह ।सौम्यादिति बुधस्य वायुनामा उल्बणनामा एते त्रयो बुधस्य गुरोविकचनामा अपरः कचनामा तृतीयोब्रह्माएते गुरोरुपग्रहाः। शुक्रस्य दैत्यः। प्रथमग्रहो द्वितीयः उपग्रहस्तृतीयः एते शुक्रस्योपग्रहाः ॥ १४ ॥ अथ शनैश्चरादीनां शनैश्चरादिति । एतरव्यादीनामुपग्रहाश्चातुरंगचक्रे निवेशनीयाः । येषां ये उपग्रहास्ते तत्स्वरूपिणः । क्रूराणां क्रूरफलदाःसौम्यानां सौम्यफलदाः॥१५॥ रविर्यायी नृपो ज्ञेयःशनिःस्थायी महीपतिः॥ रथी रथाधिपःसोमः केतुर्द्विरदनायकः ॥१६॥ अश्वाध्यक्षः सुरगुरुः पदातीशो मही. सुतः॥ शनैश्चरः स्यंदनेशः सैहिकेयो गजाधिपः ॥१७॥ भार्गवस्तुरगाधीशः पदात्यधिपतिर्बुधः ॥ रविर्यायी नृपो यस्तु राज्यं ग्रहीतुमागतः ॥ १८ ॥ चंद्रः शनिरथाधीशौ राहुकेतु गजाधिपौ ॥ भौमचंद्रौ पदातीशी गुरुशको हयाधिपौ ॥१९॥ चरलग्ने चरांशे च शीघ्रगो बलसंयुतः॥सेनां भिनत्त्यसौ खेटः शत्रुमार्गगवेषया ॥२०॥
अथ चातुरंगे युद्धकाराणां संज्ञाभिग्रहानाह । रविर्यायीति । स्वविषयसीमामुत्सृज्य स यायी राजा तत्संज्ञको रविः रविवलेन यायिबलम् । शनिः स्थायी नृपः गढाधिपः शनिबलेन गढाधिपस्य बलम् ॥ १६ ॥ १७॥ १८ ॥ १९ ॥ अधुना चतुरंगसंग्रामे युद्धे योधानां चातुरंगानां च यावदवस्था जायंते ता आह । चरलग्नेति । तदानीं चातुरंगसंग्रामोत्पन्नयो राज्ञोर्युद्धलक्षणमाह । चरलग्ने स्थितश्चरांशे च शीघ्रखगः स यदांगाधिपःस सेनांगः शत्रोर्मार्गगवेषया गमिष्यति। बली चेत्सग्रहस्तदा तत्र शत्रुसेनां भित्त्वा आगमिष्यति ॥ २० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com