________________
जयलक्ष्मीटीकासमेता।
(१८९) तस्यां दिशि विवरखननेन कोटं गृह्णीयात् ॥९०॥ अथ दुर्गस्थानां पृथग्ग्रहाणां बाह्यस्थानां च पृथक् फलमाह । दुर्गमध्ये इति ॥ ९१ ॥ ९२ ॥ ९३ ॥ इत्युक्तं तु फलं मध्ये एवं बाह्यगतैहैः॥ उपग्रहसमायोगादत्यंत प्राणसंशयः ॥ ९४ ॥ अकारादिस्वराः पंच पूर्वाद्याशाचतुष्टये ॥ मध्यांताः सव्यमालिख्य अस्तस्थाः खंडिकारकाः॥ ९५॥ दुर्गनाम्नः स्वरो यस्मिन् बालो वास्तमितोपि वा ॥ तद्दिने प्रारभेयुद्धं दुर्ग सिध्यति नान्यथा ॥ ९६ ॥ दुर्गस्थो यदि मार्गस्थः शीघ्रमित्रसमन्वितः॥ उपस्थितेपि तत्सर्वं भंगं कुर्याच्च वैरिणि ॥ ९७ ॥ एकार्गलविधानं तु कर्तव्यं दुर्गरक्षणे ॥ भंजने यमराजाख्यामित्युक्तं ब्रह्मयामले ॥ ९८ ॥ इति नरपतिजयचर्यायां स्वरोदये कोटचक्राणि संपूर्णानि ॥
इत्युक्तमिति । रव्यादीनां दुर्गमध्यस्थितानां यत्फलमुक्तं तदपि फलं बाह्यगतानामाप बोद्धव्यम् । उपग्रहसमायोगादिति । उपग्रहाः सर्वतोभद्रचक्रोक्ताः सूर्यभात्पंचम धिष्ण्यं ज्ञेयं विद्युन्मुखाभिधमित्यादयोऽत्र बोद्धव्याः॥१४॥ अथान्यत् अकारादिस्वरा इति॥अकारा इति । अकारः पूर्व इकारो दक्षिणे उकारः पश्चिमे एकार उत्तरे ओकारो मध्ये । य एव स्वरः अस्तमितो भवति तस्यां दिशि खण्डिः । अयमर्थः प्रायशो न भवति न वा उत्सर्गीसद्धिः । यतः सर्वदा खे राशिसञ्चारात्। आकारादीनां एकतमो यदाप्यस्तमितो भवत्येव न सर्वकोटेषु तस्यां दिशि खण्डिः। एवं न स्यात् कदाचसंभवति ॥ ९५ ॥ अथ स्वराणामावश्यकफलमाह । दुर्गनाम्न इति । यथा देवगिरेईर्गस्य स्वर ओकारस्तस्योदयः पूर्णायां तिथौ तत्कालेपि च तस्यास्तकाले दुर्गग्रहणमारभेत् । अस्तमितो वा स्वरो भवति अस्तस्वरेण पञ्चम उच्यते । मृतस्वरः तदुदये कोटग्रहण समारभेत् । यद्यस्तमितेन पंचमो न गृह्यते तदा दुर्गनाम्नोस्तमिते स्वरः कः
ओकारं वर्जयित्वा ॥ ९६ ॥ ९७ ॥ एकार्गलविधानमिति ॥ एकार्गलविधानं आगमाक्तै ग्रहयज्ञं च पुरस्थेन दुर्गरक्षार्थ कार्यम् । दुर्गभञ्जनाय यमराजाख्यविधानं वेष्टकाधीशेन कार्यम् । अथ ग्रन्थान्तरोक्तः अनुभूतार्थश्च लिख्यते। वक्री गुरुः प्राग्दिशि भंगकारी भंगाय भौमो दिशि दक्षिणस्याम् । भृशं भृगुः पश्चिमदिग्विभागे बुधोत्तरस्यां दिशि भंगकृत्स्यात्॥वक्री गुरू रक्षति पश्चिमायां धरासुतो रक्षति सौम्यभागे। वक्री सतो रक्षति पूर्वभागे याम्ये बुधः कोटबलेषु चैवम् । स्थिते सपुत्रे तु खौ गुर्वारशसिता
१ वज्रागलविधानं तु इति पाठ: ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com