SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ (१८८) नरपतिजयचर्याकोट कोटाधिपं नीचे निघ्नंतौ भौमभास्करौ॥ समस्थौ च पुरं सर्वमुच्चस्थो निष्फलौ च तौ ॥ ८७॥ प्राकारे वेष्टकान् नति उच्चस्थौ राहुसर्यजौ ॥ प्राकारस्थौ बहिः सैन्यं नीचस्थौ तौ तु निष्फलौ ॥ ८८॥ समदृष्टया गुरुश्चंद्रः पश्यतः सर्वतः सदा ॥ तिर्यस्थौ बुधशुक्रौ च फलदौ नात्र संशयः ॥ ८९ ॥ ऊर्ध्वष्टिग्रहे कुर्याटिंकुलीयंत्रसाधनम् ॥ समे च साधयेत्खंडिं रंध्रपातमधो मुखे ॥९०॥ दुर्गमध्ये गते ये जलशोषः प्रजायते ॥ चंद्रे भंगः कुजे दाहो बुधे बुद्धिबला नराः॥९१॥ वाक्पतौ दुर्गमध्यस्थे सुभिक्षं प्रचुर जलम् ॥ चलचित्तनराः शुक्र मत्युरोगौ शनैश्चरे ॥९२॥राहो मध्यगते दुर्गे भेदभंगौ महद्भयम् ॥ केतौ मध्यगते तत्र विषदानं गढाधिपे ॥ ९३ ॥ कोटमिति । तुलायां रविः कर्के भौमः बाह्यनाड्यां स्थितौ यस्मिन्काले अयं योगः तदा दुर्गभंगं करोति कोटाधिपं हंति । समराशौ च पुरं सर्वम् । कर्कटगो रविः कोटनाडीगतः तुलास्थो भौमः कोटनाडीगतः तदा पुरं सकलं निहन्युः । उच्चस्थौ निफलौ च तौ । मेषमकरस्थौ रविभौमौ कोटे उच्चस्थौ कोटमध्ये गतौ निष्फलौ यतस्तावूर्ध्वदृष्टी । दृष्टिफलमिदम् । यद्येवं न स्यात् राशिगतमुच्चवत् । कोटमुच्चमेत्र यदि च यस्य तदा पुरमध्ये गतौ रविभौमौ पुरनाशाय भवतः यतः पूर्वमुक्तं पुरमध्ये गताः पापाः दुर्गनाशकाः ॥ ८७ ॥ प्राकारे इति ॥ तुलायां शनिः मिथुने राहुः यत्र दुर्गे अंतर्नाडीगतौ भवतः तदा कोटं कोटवेष्टकं च द्वावपि नाशयतः कोटस्थौ भवतः मकरकन्यागतौ च तदा समस्थानगतो वेष्टकानेव नाशयतः न पुरं न काटें च । अधोदृष्टितया नीचस्थौ निष्फलौ च ताविति । मेषधनुःस्थौ बाह्यनाडीगतौ च तदानीं रक्षन्ति बाह्ये बाह्यस्थानं रक्षति कोटस्थाः कोटं च रक्षति । पुरस्थाः पुरं तेषां दृष्टिभिः दुर्गे अन्यकरणावस्ति ॥ ८८ ॥ तथाचोक्तम् । समदृष्टयति ॥ ८९ ॥ अथ पृथग्दृष्टिभिर्दुर्ग कृत्यमाह । ऊर्ध्वदृष्टीति । यदि पुरमध्यगतौ रविभौमौ तदा पुरस्थेन टिकुलीयंत्रं कुर्यात् परचक्रोपरि पाषाणादिगोलत्यागाय । बाह्यगतौ तौ चेत् तदा वेष्टाधीशेनापि कोटभंगाय टिंकुलीयंत्र कुर्यात् । समे च साधयेत्वडिमिति । समे समदृष्टिग्रहे समस्थे कोटस्थे तदा कोटे खंडिकरणाय यत्नं कुर्यात् । समदृष्टिग्रहौ जीवेंदू दृष्टया खंडीकुरुतः परंतु कोटं रक्षतः । संनिपातेपि सति परचक्रेण गृह्यते। रंध्रपातमधोमुखे । अघोदृष्टिग्रहे कोष्टस्थे रंध्रपातं कुर्यात् कोर्थः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy