________________
आ
-
-
जयलक्ष्मीटीकासमेता।
(१८७) प्रवेशमिति । चतुःकोणे बाह्यनाड्यां वक्री पापग्रहः कोपि चेद्भवति । तथा बाह्यस्थभूपतेः स्वसैन्यविग्रहः दुर्भिक्षं च भवति मृत्युवा युद्धे ॥ ७७ ॥ अथ गढाधिपस्य निर्गमः इति । चतुर्दिक्षु बहिर्नाड्यां निर्गमनक्षत्रे कथंचिदेको ग्रहः क्रूरो वर्क कराते वक्री भवति तदा दुर्ग भज्यते । निर्गमः दुर्गस्थश्चेद्वक्री भवति तदा पुरस्य भंगः यायिना पुरं गृह्यते । अस्मिन्योगे यदापि केनापि गृह्यते पुरम् ॥ ७८ ॥ अथान्यत् । पुरभे निर्गमेति । पुरभे गर्भनाडिभे निर्गमदिशिं कथंचित् क्रूरखेचरो वक्री स्यात् । तस्मिन्काले दुर्गस्थः पौरो राजा दुर्ग मुक्त्वा दुगै परित्यज्य पलायते । अन्यदापि परचक्र विनापि अस्मिन्योगे केनापि कारणेन पौरो राजा पलायते । अर्थात् जायचे अकस्मात्कारणेन दुर्ग मुक्त्वा पलायने ॥ ७९ ॥ ८० ॥ अथ दुर्गग्रहे इदमेव बीज स्थायियायिनोः। दुर्गग्रहे ॥ इति ॥ ८१ ॥ ॥अर्धचंद्राकृतिकोटचक्रम् ॥ पुरमध्येहताः सौम्याः
पापा बहिरवस्थिताः॥ गढाधिपस्य जयदाः फलमार्गानिसर्गतः ॥ ॥ ८२॥ उभयोर्विपरतिस्थाः पापाः सौम्याः पुरग्रहाः ॥ भंगो
मत्युस्तदा काले वर्जवति पुरग्रहम् ॥ ८३ ॥ पुरभंगप्रदान् योगान् ज्ञात्वा परपुरं ब्रजेत् ॥ यायी स्थायी च तं कालं दानोपायैः समं नयेत् ॥ ८४ ॥ उच्च नीचं समं स्थानं पुरावुक्तं पुनर्ग्रहे ॥ ऊर्ध्वदृष्टिरधोदृष्टिः समतिर्यग्दृशौ पुनः ॥८५॥ दुर्गसैन्यं सदैवोच्चैःप्राकारे मध्यबाह्यकम्॥नीचस्थं वेष्टकं सैन्यं ज्ञातव्यं स्वरवदिभिः ॥८६॥
अथ स्थायिनः । पुरमध्ये इति ॥ ८२ ॥ उभयोरिति । पापा हिता अभ्यंतरगा यायिनां ते बहिःस्था मृत्युदा भवन्ति ये शुभा अभ्यंतरगा हिताः स्थायिनां ते बाह्यस्था अहिता इत्यर्थः ॥ ८३ ॥ पुरभगंप्रदानिति दंड दत्त्वा पुरं रक्षदित्यर्थः।।८४॥ अथान्यत्फलं वक्तुं पूर्वरंगमाह । उच्चं नीचमिति॥ ८५ ॥दुर्गसैन्यमिति । उच्चदुर्गसैन्यं कोर्थःदुर्गमध्ये उच्चस्थानं यत्र कोर्ट कोटनाडी तत्कोटस्य समस्थानम् । यत्र वेष्टकास्तन्नीचम् । उच्चं समं नीचं त्रिधा स्थाने कोटेपि ॥८६॥
चिस्वावि
भ अ
ज्ये
:
अ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com