________________
चवा
जयलक्ष्मीटीकासमेता।
(१८५) चक्रं विसर्जयेत् । यत उक्तम् । “सर्वनाशे समुत्पन्ने त्वर्द्ध त्यजति पंडितः" । अथवा "प्रक्षालनाद्धि पंकस्य दूरादस्पर्शनं वरमिति"॥६७॥उभयोः कवियुद्धसमयं योगं चाह। प्रवेशधिष्ण्यगोत । जीवपक्षनक्षत्रे चंद्रे दिननक्षत्रे तत्कालनक्षत्रे वा चद्रे प्रवेशस्थे चतुदिकस्थाननक्षत्रगे चंद्रे तस्यां विदिशि कोणादिशि बाह्यस्थसैन्यकैः निशि कविं कुर्यात् । यद्यप्युक्तमबलस्य बलोपायं वक्ष्येहं कविसंगरे । तथापि यायी राजा स्वजयाय कवियुद्धेनापि दुर्गं गृहीयात् । यतो दुर्गस्थो दुर्गमः शत्रुरिति । असाध्यः केनाप्युपायेन साधयेत् ॥ ६८ ॥ ॥ धनुराकारकोटचक्रम् ॥ निर्गमःस्थिते चंद्रे दुर्गाभ्यंत
रगैर्नृपैः ॥ कर्त्तव्यं कवियुद्धं च रात्रौ सुप्त बहिर्जने ॥६९॥ प्रवेशनिर्गमावुक्तौ सैन्ययोरुभयोरपि। कवौ कोटे जयो युद्धे विपरीत पराजयः ॥ ७० ॥ गढाधीशाः स्मृताः सौम्या वेष्टाधीशास्तु पा
पकाः । क्षेत्रयुग्मे स्थिता ये ते ध श्र अ ज्ञातव्याश्च प्रयत्नतः ॥ ७१ ॥ गढाधीशो भवेच्चन्द्रो वेष्टाधीशस्तु भास्करः ॥ चंद्रसूर्यविभागेन ज्ञातव्यं च बलाबलम् ॥ ७२॥ अंशाधीशो भवेच्चंद्रस्ताराधीशश्च भास्करः ॥ चंद्रसूर्यगतिज्ञात्वा 'पश्चादीशं च कारयेत् ॥ ७३ ॥ वेष्टाधीशो भवेन्मध्ये गढाधीशस्तु बाह्यतः॥ स्वयं दुर्ग प्रयच्छंति वेष्टकाय गढाधिपाः ॥७४ ॥ भूबलं पृष्ठतः कृत्वा पुरस्कृत्वा विचक्षकान्॥ घातपातदिशो हित्वा कवियुद्धं समारभेत् ॥७५॥ क्रूरो वक्री प्रवेशः पुरमध्ये स्थितो यदा ॥ तदा कोटविनाशाय कोटस्थो बाह्यभूपतेः ॥ ७६ ॥
निर्गमस्थित इति । यायी कोटग्रहणाय प्रवेशे विशेत् । कवियुद्धे कोटाधिपश्च स्वजयाय निर्गममार्गेण निःसृत्य वेष्टकसैन्ये प्रवेशमार्ग प्रविश्य हन्यादति कृतेरुभयो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com