________________
( १८४ )
नरपतिजयचर्या । चापकुन्तगदापाशखड्गहस्तैर्महाभटैः ॥ अभंगयोर्द्वयो राज्ञोः सैन्यावर्तः प्रजायते ॥ ६२ ॥ वाहिन्यो रक्तवाहिन्यो दुस्तराः प्रेतसंकुलाः ॥ वसा सक्पं कलिप्तांगाश्चांत्रमालावगुंठिताः ॥ ६३ ॥ ॥ वृतदीर्घकोटचक्रम् ॥ गृध्रकाकशिवाश्येनडाकिनीप्रेतसंकुलाः ॥ वेतालपालभूताद्याः पिशाचोरगराक्षसाः ॥ ६४ ॥ वेतालचञ्चला
आ
हा चि स्वावि भूताः पिशाचाः स्वेच्छया वृताः ॥ ईदृशं च महायुद्धं तत्काले जायते ध्रुवम् ॥ न कश्चिद्विजयी युद्धे इयं याति
भ अरे
उ
श
पू
पु
पु
भा
bo
उ
मू
ज्ये
अ
भ
X
यमालयम् ॥६५॥ समसंख्याः शुभाः क्रूरा बहिर्मध्ये यदा स्थिताः॥ तदा संधिं विजानीयात्सैन्ययोरुभयोरपि ॥ ६६ ॥ क्रूरैभंगो जयः सौम्यैर्मिश्रर्मिफलं मतम् ॥ विचार्य कुरुते युद्धं कोटचक्रे स्वरोदयी ॥ ६७ ॥ प्रवेशधिष्ण्यगे चन्द्रे जीवपक्षाक्षसंस्थिते ॥ निशीथे कवियुद्धं तु कर्तव्यं बाह्यसैन्यकैः ॥ ६८ ॥
1
पुनः कीदृशः संग्रामः । चापेति । राज्ञोईयोरभंगः कोर्थः द्वौ राजानौ घातं विना तिष्ठतः एवं विशिष्टयो राज्ञोरभंगयोः सैन्यावर्तः परस्परं बलानि स्वराजरक्षां कुर्वेति । अभंगशब्देन युद्धं न जायते तदाग्रिमश्लोकार्थो न घटते ॥ ६२ ॥ वाहिन्य इति । एतावता किं जातम् अष्टौ ग्रहा यत्र दुर्गे सैन्यकोटे वा कविरणे वा दृश्यंते । बाह्यरेखायामंकत्र मध्यरेखायामेकत्र गर्भरेखायामेकत्र तस्मिन्काले पुरग्रहणाय यायी यत्त्रं नैव कुर्यात् । परचक्रम् स्वसैन्यं गृहीत्वा परपुरं व्रजेत् । यत्र स्थाने अष्टौ ग्रहा एकत्र तत्र कविं न कुर्यात् । यायी स्थायी च द्वयं विलयं याति ॥ ६३ ॥ ६४ ॥ ६५ ॥ अतः परं संधिमाह । समसंख्या इति । शुभदयं पापद्वयं, पुरमध्ये शुभदयं पापद्वयं बाह्ये तदा उभयोः प्रीतिर्जायते ॥ ६६ ॥ विचार्येति । स्वरशास्त्रज्ञो यत्र तदादेशात् नृपः पापा दुर्गलाभयोग प्राप्य कोटयुद्धं समारभेत् । कोटाधिपो वेष्टकाधीशभंगयोगान् ज्ञात्वा युद्धाय प्रसज्जेत । अन्यथा स्वपराजयं दुर्गभंगं ज्ञात्वा किंचिद्दानं दत्त्वा पर
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com