SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ जयलक्ष्मीटीकासमेता। (१८३) गजाश्वरथभूपालाः सामन्ता मण्डलेश्वराः ॥ भटामर्द प्रकुति सैन्ययोरुभयोरपि ॥११॥ अथान्यद्योगांतरमाह प्राकारे पुरमध्ये चेति । प्राकारे मध्यनाड्यां पुरमध्ये तृतीयनाड्यां यदा पापा भवंति ।ग्रहद्वयं कोटे । ग्रहत्रितयं मध्ये सकलाः पापा बाह्ये बाह्यनाड्यां अस्मिन्योगे यदि रोधः परचक्रेण क्रियते तदा यत्नेन स्तोकप्रयासेन दुर्गं गृह्यते ॥५०॥ अथान्यद्योगांतरमाह। सौम्या मध्ये चेति। शुभग्रहा मध्ये पुरगर्भनाडीस्थाः कोटे च मध्यनाडीगताःशुभद्वयं कोटे पापा बाह्यगताः तदा देवा आप कोटग्रहाय न समर्था भवंति ॥५१॥ अथ योगांतरमाह । प्राकारे बाह्यगा इति। पापद्वयं बाह्येऽन्ये पापग्रहाः कोटे शुभाः सकलाः पुरमध्ये अस्मिन्योगेयुद्धं भवति । प्राकारखंडिश्च पुरभंगोन विद्यतेन गृह्यत इत्यर्थः ॥ ५२ ॥ योगांतरमाह स्तंभांतरगता यस्येति । मध्ये स्तंभचतुष्टयमिति चतुर्दिा चत्वारि नक्षत्राणि स्तंभसंज्ञानि तेषामेकतमस्थाः शुभाः प्रत्येकं व्यवस्थिताः। किंविशिष्टाः शुभान्विताः विशेषेण एकत्रावस्थिताः अथवा शुभान्विताः मित्रग्रहान्विताः मित्रदृष्टा उच्चस्वगृहस्थाः एतैः कारणैः शुभान्विताः कथिताः पापा बाह्यगा एको द्वौ च स्तंभः वर्जयित्वा मध्ये स्थिता अपि पापाः तदा तस्य कोटस्य केनाप्युपायेन भेदो दंडः सामदानादिभिर्नाशो न भवति ॥ ५३॥५४॥ योगांतरमाह ॥ स्तंभांतरगता यत्रेति ॥ सुगमम् ॥ ५५ ॥ मयैवोत ॥ सुगमम् ॥५६ ॥ योगांतरमाह ॥ सौम्या बायेति । बाह्यनाड्यां कोटे मध्यनाड्यां यदि शुभाः यस्मिकोटे कूराः कोटमध्ये अंतनार्डयां तदा स्वयमेव गढाधिपो वेष्टकाय कोटं ददाति ॥ ॥५७॥ योगांतरमाह । बाह्याभ्यंतरगा इति । बाह्यनाड्यां क्रूरद्वयम् अंतर्नाड्यांच क्रूरद्वयं मध्यनाड्यां शुभाः तस्मिन् दुर्गे परचक्रं गढाधीशो रिपुद्वयं क्षयमायाति । अर्थात् प्रत्यहं युद्धं भवति । एवं यत्र भटाः म्रियते एवं द्वयमपि बलं नष्टं भवति । न वेष्टक: कोटं ग्रहीतुं शक्तः न वा कोटाधिपस्तमतिक्रमितुं शक्तः समेनैव गच्छति । विशेषोत्र बाह्ये पापा वेष्टकान् नंतीति प्रथमत उक्तम् अंतर्नाडयां पापा दुर्गपान् नंतीति । मध्ये शुभाः कोटं रक्षति ॥ ५८ ॥ अस्य विपरीतमाह । प्राकारस्था इति । शुभद्वयं बहिः शुभद्वयं कोटमध्ये क्रूरग्रहा मध्यनाड्यां तत्र दुर्गे समयुद्धं भवति । दिने दिने दुर्गे खडि: पतति अकस्मान्न गृह्यते। कालांतरेण क्रूर एको द्वौ वा अंतः प्रविशति शुभो या बाह्यमायाति तावत्समं युद्धं खंडिपातश्च तदुपरि गृह्यते ॥ ५९॥ योगांतरमाह । सौम्या: क्रूरा इति । शुभाशुभा अष्टौ ग्रहा एकत्र बाह्यदुर्गे वा गर्भनाड्यांवा यत्र कोटे भवंति तत्र दारुणं संग्राम कुति तस्मिन्काले कोटग्रहणाय यत्नं न कुर्यात् । यतो भटानां क्षयः न दुर्गग्रहः॥ ६० ॥ कीदृशः संग्राम आहवः गजाश्वेति । एतावता यत्रायं कोटयोगो भवति तत्रावश्यमेव परचक्रागमः युद्धं च भवति ॥ ६१ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy