________________
( १८२ )
नरपतिजयचर्या
प्राकारे कोटे शुभग्रहा यदि स्युः क्रूरचतुष्टयं पुरमध्ये तदा दुर्गनाथस्य भेदो जायते पुरनाथस्य भेदो जायते पुरनाथस्य मन्त्रिणो योद्धा ये अन्ये पुत्रमित्रादयः वेष्टकाधीशं मिलन्ति वेष्टकाद्धनं गृह्णन्ति तदा विना युद्धेन पुरं गृह्णाति पुररोधकः ॥ ४७ ॥ प्राकारे संस्थिता इति । प्राकारे मध्यमानाडीसंज्ञके कोटे यदि क्रूराः सकलाः सदुर्गभंगे समुत्पन्ने सति वेष्टक एव भंगमायाति कोटग्रहयत्नं हित्वा ससैन्यो भंगमायाति पलायते युद्धे हानिर्जायते ॥ ४८ ॥ मध्यनाडीस्थिता इति मध्यनाडी कोटाख्या तत्र शुभग्रहा भवंति । पापग्रहा बाह्ये बाह्यनाडीगता भवंति यत्र कोटिग्रहणकाले तदा विना युद्धेन बहिः शत्रोः पुररोधकस्य सैन्ये व्याकुलता भवति सैन्यावर्तो जायते । अश्वगनपदातयश्च इतस्ततो धावन्ति कुत्रकुत्रेति व्यवहरन्त इतस्ततो धावन्ति । केपि पलायमानाः केपि कमपि व्याकुलान् पृच्छन्ति । केपि अश्वान् भययुतान् कुर्वति इत्यादि सन्यावर्तः ॥ ४९ ॥
प्राकारे पुरमध्ये च यदा क्रूरा अधिष्ठिताः ॥ सौम्या बाह्ये तदा दुर्गमयत्नेनापि सिध्यति ॥ ५० ॥ सौम्या मध्ये च कोटे च बाह्ये पापग्रहा यदि ॥ देवैर्ब्रह्मादिभिर्दुर्गं गृह्यते न कदाचन ॥५१॥ प्राकारे बाह्यगाः क्रूराः सौम्या मध्यगता यदि ॥ युद्धं प्राकारखंडिश्च पुरभंगो न विद्यते ॥ ५२ ॥ स्तंभांतरगता यस्य ग्रहाः सौम्याः शुभान्विताः ॥ भवेयुस्तस्य कोटस्य न नाशो विद्यते क्वचित् ॥ ५३ ॥ यदि साक्षादहं तत्र युद्धे चात्मगणान्वितः ॥ तथापि न भयं विद्यादिति सत्यं वरानने ॥ ५४ ॥ स्तंभांतरगता यत्र रविराहुशनैश्चराः ॥ भूमिपुत्रश्च तस्याशु नाशः कोटस्य निश्चितम् ॥ ५५ ॥ मयैव रक्षिते तत्र युद्धे कोटेन संशयः ॥ तथापि न भवेत्सम्यक् ग्रहदोषाद्वरानने ॥ ५६ ॥ सौम्या बाह्ये तथा कोटे मध्ये क्रूरग्रहाः स्थिताः ॥ स्वयं दुर्गे प्रयच्छंति वेष्टकायगढाधिपाः ॥ ५७ ॥ बाह्याभ्यंतरगाः क्रूराः प्राकारे शोभना ग्रहाः ॥ रिपुद्वयं क्षयं याति विना युद्धेन निश्चितम् ॥ ५८ ॥ प्राकारस्था ग्रहाः क्रूरा बहिर्मध्ये शुभाः स्थिताः ॥ समं युद्धं भवेत्तत्र खंडिपातो दिनेदिने ॥ ५९ ॥ सौम्याः क्रूरास्तथा चाष्टौ प्राकारे मध्यबा - हागाः ॥ एकस्था यत्र कुर्वति संग्रामं तत्र दारुणम् ॥ ६० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com