SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ जयलक्ष्मीटीकासमेता। (१८१) मध्यगं नीचं चक्रे चात्र व्यवस्थितम् ॥४१॥ ऊर्ध्वदृष्टी च भौमार्को केकरौ बुधभार्गवौ ॥ समदृष्टी च जीवेंदू शनिराहु त्वधोदृशौ ॥ ४२ ॥ क्रूरोतिक्रूरतामिति । तथा प्रोक्तं सर्वतोभद्रे । “क्रूरा वक्रा महाक्रूराः सौम्या वक्रा महाशुभाः । वक्रचारे समासन्ने शीघ्रप्येवं विपर्ययादिति वक्रचारफलम् । पापशुभानां विपर्ययः कोर्थः पापाः शीघ्राः शुभा भवंति शुभाः शीघ्रा अतिशुभा इति ॥३९॥ मेष इति । यथा मेषो वेरुचं तस्मात्सप्तमं तुला तन्नीच तयोरंतरेण तुर्य कर्कमकरौ खेः समस्थानम् एवं सर्वेषां स्वस्वोच्चनीच समस्थानं ज्ञेयम् । अत्र चके कोटचक्रे उच्चस्थं ज्ञेयं मध्यस्थं ज्ञेयं नीचस्थमिति ॥ ४० ॥४१॥ ४२ ॥ सुहृदोकदुभौमेज्या एवं शुक्रज्ञभानुजाः॥ अन्योन्यवैरिणो ह्येते राहोः सर्वे च शत्रवः ॥ ४३ ॥ स्वक्षेत्रस्थे बलं पूर्ण पादोनं मित्रभे आहे ॥ अर्द्ध समगृहे ज्ञेयं पादं शत्रुगृहस्थिते ॥ ४४ ॥ क्रूरा गर्भ पुरं नंति प्राकारे खंडिकारकाः ॥ बहिःस्था वेष्टके सैन्यमृत्युदा नात्र संशयः ॥ ४५॥ क्रूरा गर्भे शुभा बाह्ये गृह्यते निश्चितं पुरम् ॥ सौम्या मध्ये बहिः करा असाध्यं दुर्गमुच्यते ॥ ४६॥ क्रूरं चतुष्टयं मध्ये प्राकारे सौम्यखेचराः ॥ भेदाझंगो भवेत्तत्र विना युद्धेन गृह्यते ॥४७॥ प्राकारे संस्थिताः करा मध्ये सौम्यग्रहा यदि ॥ दुर्गभंगे समुत्पन्ने भंगमायाति वेष्टकः ॥ ४८ ॥ मध्यनाडीस्थिताः सौम्याः क्रूरा बहिरवस्थिताः ॥ सैन्यावर्तो बहिः शत्रोविना युद्धे न जायते॥४९॥ मित्रामित्र आह । सुहृदोति । अर्केन्दुभौमगुरूणां चतुर्णा रविचंद्रभौमबृहस्पतयोन्योन्यं सुहृदः॥ तथा शुक्रबुधशनयोपि स्वस्मिन्सुहृदः । एतेपि अन्योन्यं वैरिणः । रविचंद्रभौमगुरूणां चतुर्णा शुक्रबुधशनयो वैरिणः । शुक्रबुधशनानां रव्यादयश्चत्वारो वैरिणः । रव्यादयः सबै राहोः शत्रवः ॥ ४३ ॥ बलमाह । स्वक्षेत्रस्थ इति ॥४४॥ क्रूराणां स्वभावमेवाह ॥ क्रूरा गर्ने पुरमिति यदि रविभौमशनिराहुकेतवो गर्भेषु पुरमध्ये भवंति तदा पुरं नंति नगरं परचक्रं हस्तगतं करोति । प्राकारे सकलाः पापास्तदा कोटं नति बहिःस्थाश्चेत्पापाः तदा वेष्टकान् पुररोधकान् नति । क्रूराणामेवं स्वभावः । मध्ये कोटे बहिः सकलाः शुभा रक्षका एव ॥ ४५ ॥ पापशुभयोगेन गर्भकोटबाह्यगतेन दुर्गग्रहे नानाफलमाह । क्रूरा गर्भ इति । सुगमम् ॥ ४६ ॥ क्रूरं चतुष्टयमिति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy