SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ जयलक्ष्मीटीकासमेता। (१७९) क्षत्रन्यस्ते तेष्वेव तत्र नक्षत्राणि ज्ञेयानि । ग्रहाश्च तत्र तत्र तद्ग्रहणाय चतुरस्रोक्तेनैव यत्नं कुर्यात्॥२८॥एवं कृते दुर्गे विभाग। दुर्गभित्तिविभागेनति । यत्र पाषाणादिकोटः तदधोभित्तौ बाह्यरेखामध्ये मध्यरेखां तदुपरि मध्य एवं भित्तिविभागः। भित्तिशब्देन पाषाणादिरचितकोट इत्युच्यते । जलदुर्गवनदुर्गपरिखाटुर्ग इत्यादिदुर्गाणां चतुरस्रभूमिभागरखायामेव न्यासः न तस्य ग्रहणं रक्षा च । अधुना ग्रहयोगेन दुर्गग्रहणं रक्षा च गढाधिपगढावरोधकानां शुभाशुभमाह । तत्रस्थैरिति । यस्यां दिशि क्रूरा दुर्गे तिष्ठति बाह्ये मध्ये तत्र तस्यां दिशि कोटग्रहणाय यत्नं कुर्यात् । दुर्ग भन्यते दुर्गाधिपोपि ॥ २९ ॥ ३०॥ ॥ वर्तुलकोटचक्रम् ॥ la उपू बुधशुक्रंदुजीवाश्च सदासौम्य- ग्रहा मताः ॥ शन्यर्कराहुमाहेयाः केतुः क्रूरग्रहा मताः ॥३१॥ त्रिःप्रकारो ग्रहे चारो वक्रः शीघ्रः समोमतः।।उच्चनीचसमास्ते चत्रिधा चक्रे भ्रमंति च ॥ ३२॥ ऊर्ध्वं चाधः समस्तिर्यक् दृष्टिभेदश्चतुर्विधः ॥ स्वकं मित्रं समः शत्रुः स्थान मूग्य अ भेदश्चतुर्विधः ॥ ३३ ॥ ईज्यो भौमो भृगुर्यत्र बुधः पूर्वादिदिस्थितः॥ कुर्याद्भगं वाथ भक्ता क्रूरश्चंद्रसमन्वितः॥ ३४ ॥ सूर्यमुक्ता उदीयंते शीघ्रगाश्च द्वितीयगे ॥ समास्तृतीयगे ज्ञेया मंदा भानौ चतुर्थगे ॥ ३५॥ वक्राः पंचमषष्ठकें त्वतिवक्राष्टसप्तमे ॥ नवमे दशमे भानौ जायते कुटिला गतिः ॥ ३६ ॥ शीघ्रगाश्च भवत्येते द्वादशैकादशे तथा|राहुकेतू सदा वक्रो रवींदू शीघ्रगौ सदा ॥३७॥ शीघ्रोतिचारगत्या च समश्च सममंदयोः॥ वक्रातिवक्रकटिलौ वक्रगत्या ग्रहा मताः ॥ ३८ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy