________________
जयलक्ष्मीटीकासमेता ।
( १७७ )
अथ वर्गाधिपमाह । अगरुड इति । दुर्गस्य यो वर्गः तद्वर्गनाथस्य यो भक्ष्यः तद्वर्णाक्षरनामनराः शूरा अपि दुर्गग्रहणाय सेनापतयो न कार्याः । गढाधिपा अपि न ते कार्याः । यथा कोटस्य नाम अमरगिरिदुर्गममगिरिदुर्गस्य वर्गों अवर्गः अवर्गस्याधिपो गरुडः गरुडस्य भक्ष्यं सर्पः तस्य वर्गस्तवर्गः तवर्गाक्षरनामानो भटाः अमरगिरिदुर्गग्रहणाय सेनापतयो न कार्यास्तदा अग्रेसरा अपि न कार्याः ते दुर्गे विलयं यांति । तथा अमरगिरौ तबर्गाक्षरनामानस्ते अजसिंहनरसिंहदानवार्याद्यप्रभृतयो गढरक्षका न कार्याः यतो दुर्गमेव तान् भक्षयिष्यति । एवं पुनः देवगिरौ दुर्गगढाधिपाः अवर्गाक्षरनामानः। अमरसिंह ईश्वरसिंह उद्दियानसिंहप्रभृतयो गढाधिपा न कार्याः स्वस्ववर्गाक्षरनामानः स्वस्वदुर्गे हिता एव । एवं सर्वे वर्गा दुर्गे ज्ञेयाः ॥ १३ ॥ १४ ॥ १५ ॥ अथ दुर्गखंडिमाह । स्ववर्गादिति । दुर्गवर्गस्य या दिकू अवर्गः पूर्वदिशि इत्यादिक्रमेण स्ववर्गदिकूतः पंचमायां दिशि दुर्गखंडिर्भगश्च । एतावता किं यथा देवगिरिदुर्गस्य तवर्गः तत्र दुर्गे तवर्ग तत्र दवर्गस्तवर्गः पश्चिमायां स्थितः पश्चिमतः पंचमी दि प्राची देवगिरौ दुर्गे दुर्गग्रहणाय प्राच्यां यत्नं कुर्यात् कोटग्रहणाय प्रापणिकोयम् ॥ १६ ॥ अधुना विस्तारमाह । कोटचक्रमिति । चतुरस्रं त्रिनाडिकमिति लिखनपरंपरायातं बोद्धव्यम् । आदौ कृत्तिका दिलिखनं पूर्वागमोक्तम् । यतो भूबलमेव दुर्गकोटाधिप ईश्वरः तेन अइउएकृत्तिका ईश्वरनामनक्षत्रादेव न्यास आदियामले । अधुना धरावलये स्वल्पवीर्या राजानः प्रति ग्रामादिषु दुर्गरचना कृता अन्यथा ये किंचिद्बाधिकास्ते स्वल्पबलिन उन्मूलयंत्येव स्वल्पबलोपि स्ववर्गेणाधिकवलिभिः सह वैरमारभते । अतः प्रति दुर्गं भिन्ना रचना । तत्र दुर्गनक्षत्रन्यासे अयमेव विधिः । बाह्यरेखायामीशानकोणे कृत्तिका लेख्या । ततो मध्यरेखायामीशानकोणे रोहिणी लेख्या । ततोभ्यंतररेखायामीशानकोणे मृगशिरः एवं कृते बहिः कोटे च मध्ये चेति लिखनार्थः । अथ मध्यमे कोटे बहिर्बहिरिति । आर्द्रा प्राचीमध्ये लेख्या । पुनर्वसुस्तदुपरि बाह्यरेखायां दुर्गे लेख्या । पुष्यश्च बहिर्बाह्यरेखायां लेख्यः । आश्लेषा च प्राची बहिर्बाले लेख्या । एवं कृते कृत्तिकादिसप्तनक्षत्राणि बहिः कोटे च मध्ये च बहिः कोटे बहिर्बहिरिति लिखने क्रमो दर्शितः । एवमाग्नेयकोणात् बहिः कोटे च मध्ये च भानि लिखेत । तथा नैर्ऋत्यकोणतो बहिः कोणे मध्ये चेति प्रवेशलिखनं मध्ये कोटे बहिर्बहिरिति निर्गमलिखनम् । एवं वायव्यकोणे ॥ १७ ॥ १८ ॥ बहिर्द्वादशभान्यत्र प्राकारे तारकाष्टकम् ॥ दुर्गमध्ये तथा चाष्टौ मध्ये स्तंभचतुष्टयम् ॥ १९ ॥ कृत्तिका पुष्यसार्पे च मघा स्वाती विशाखिके ॥ अनुराधाभिजित्कर्णो धनिष्ठाश्वियमाह्वयम् ॥ २० ॥ ब्राह्मं पुनर्वसुर्भाग्यं चित्रा ज्येष्ठोत्तरा तथा ॥ शतभं रेवती चैव
१२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com