SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ (१७६) नरपतिजयचर्याअथ समचतुरस्रादिकोटचक्राणि । अथात इति ॥ १॥ यस्याश्रयति ॥ यस्य दुर्गमस्याश्रयबलात् स्तोकारिः स्वल्पवलो राजा भूरिसैन्यपराभवं करोति । गजरथतुरंगपदातिसमृद्धवाहिनीपतिरपि पराभवं प्राप्नोति ॥ चतुर्दिक्षु सीमास्थै राजभिः सह यस्याश्रयबलाद्युद्धं करोति तस्य कोटस्य ग्रहणोपायं वक्ष्ये इति पर्यवसन्नार्थः ॥२॥ विषमामिति ॥ दुर्ग किं विशिष्टे विषमम् अधिराहावराहाभ्यामशक्यम् अत्युच्चत्वात् । अथवा विषमम् अतिकुटिलम्।दुर्गमं कुत्रापि खदिरवनाकर्णि कुत्रापि परिखा कालरूपिणी यत्र परिखायां नक्रादिजंतवो भीषणाकाराः कोटिशः। यत्र कोटविवरे बिलेशया: विषमफणिफणाफूत्कारैर्भीषयंति । एवं दुर्गमम् । यत्र दुर्गोपरि वानरशरीराणि बहुशः कल्पितानि तैः शोभितम् । कचित्पर्वशृंगाग्रमिवाष्टकशताकुलम् ॥ ३॥ प्रतोलाति । यस्य दुर्गस्य प्रतोलीजलनिर्गममार्गः काल इवाभाति । यस्य परिखा कालरूपिणी पर्वतान् कल्पांतपतितजलकृतमार्ग इव कालरूपिणी परिखा। संग्रामकरणाय कृतमाटो यत्र ॥ यस्योपरि चतुर्दिक्षु कोटिशः शरप्रक्षेपमार्गालंकृतकिरीटाकृतिपाषाणनिर्मितरणकरणमंडनमंडलानि शोभते । यदंतर्धानगता योद्धारो भटा युध्यन्ति तैः शोभितम् । पुनर्डिंकुलीयंत्रयंत्रितं कोटिशः प्रक्षेपणीयपाषाणगोलकप्रक्षेपणयंत्रैर्यत्रितं सहितम् ।। ॥४॥५॥ ६॥७॥ ८ ॥ अष्टानामेषां साधनोपायमाह मृन्मये साधयेत्वंडिमिति ॥९॥१०॥ अष्टानां वर्गक्रमण नामान्याह । अतिदुर्गमिति । अतिदुर्गमित्यनेन अवर्गाक्षरं नाम दुर्गवर्णप्रथमम् । कालकर्णमित्यनेन कवर्गाक्षरं नाम दुर्गे द्वितीयम् । चक्रावर्तमिति चवर्गाक्षरं नाम तृतीयम् । टिंपुरमिति टवर्गाक्षरं नाम चतुर्थम् । तलावर्तामति तवर्गाक्षरं नाम पंचमम् । पद्माख्यमिात पवर्गाक्षरं नाम दुर्ग षष्ठम् । यक्षभेदमिति यवर्गाक्षरं नाम दुर्ग सप्तमम् । शमाख्यामति शवर्गाक्षरं नाम दुर्गमष्टममिति ॥ ११ ॥१२॥ अगरुडः क मार्जारश्च सिंहः टच शुनीसुतः॥त सर्पश्च प आखुश्च य मृगः श अजात्मजः॥१३॥ ताक्ष्यस्य भक्ष्यो भुजगो बिडालस्य च मूषकः॥सिंहस्य भक्ष्यो हरिणः शुनो भक्ष्य अजात्मजः ॥ १४ ॥ दुर्गवर्गस्य ये भक्ष्या वर्गास्तन्नामजा नराः ॥ तदुर्गे ते रणे त्याज्या न कर्तव्या गढाधिपाः ॥१५॥ स्ववर्गात्पंचमे स्थाने खंडिभंगश्च जायते ॥ अवर्गाद्यष्टकं ज्ञेयं पूर्वाद्यष्टदिशि क्रमात ॥ १६ ॥ कोटचक्रं लिखेच्चादौ चतुरस्रं त्रिनाडिकम् ॥ कृत्तिकादीनि धिष्ण्यानि साभिजिन्ति न्यसेद्बुधः ॥१७॥ बहिः कोटे च मध्ये च दुर्गमध्ये बहिः पुनः ॥ प्रवेशो निर्गमस्तत्र ज्ञातव्यः स्वरवदिभिः॥१८॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy