________________
( १७४ )
नरपतिजयचर्या -
अथ खलचक्रम्। चतुरस्रं चतुर्द्वारं खलचक्रे लिखेद्बुधः ॥ नंदादितिक्षयो न्यस्य पूर्वद्वारक्रमेण च ॥ १ ॥ पूर्वाशादिचतुष्केषु सप्तसप्तक्रमेण च ॥ कृत्तिकादि लिखेन्मध्ये खले भान्यष्टविंशतिः ॥ २ ॥ शनि चंद्रौ कुजः सौम्यो भानुशुक्रौ गुरुस्तमः॥ मध्ये बहिर्गता ज्ञेया अपसव्यदिशां क्रमात् ॥३॥ यद्दिने यद्दिशि स्युस्ते तिथिधिष्ण्यदिनाधिपः ॥ प्रवेशः खलकद्वारे कर्तव्यस्तद्दिशां सदा ॥ ४ ॥ खलकाभ्यन्तरे कालः शनि सूर्येज्य मंगलैः ॥ बुध शुक्रेदुभिर्बाह्ये स्थायी यायी क्रमाज्जयी ॥ ५ ॥ खलके मध्यनक्षत्रे यो ग्रहो यत्र संस्थितः ॥ तत्र स्थानगते चंद्रे फलं वक्ष्ये शुभाशुभम् ॥६॥ सूर्यस्थानगतः शरो म्रियते चन्द्रमिश्रिते ॥ भौमस्थाने महाक्रोधी बुधस्थाने महद्भयम् ॥ ७ ॥ गुरुस्थान मतिस्थैर्य भंगमायाति भार्गवे ॥ शनिस्थाने क्षतं युद्धं राहुस्थे मरणं ध्रुवम् ॥८॥ वक्रस्थाने भवेद्भगः शीघ्रस्थाने च धावति ॥ समाचारगते स्थायी क्षीणेन्दाववगूहति ॥ ९ ॥ क्रूरे पृष्ठे जयो युद्धे सौम्ये पृष्ठे पराजयः ॥ क्रूरे च सन्मखे मृत्युर्जयः सौम्येग्रसंस्थिते ॥ १० ॥ योधयोः पृष्ठगाः क्रूरा उभयोर्मृत्युकारकाः ॥ सौम्याः सन्धिप्रदा युद्धे मिश्रामि फलप्रदाः ॥ ११ ॥ दिननक्षत्रमारभ्य त्रिभिः सुप्तो द्विशेषके || शून्यैकशेषे ग्राह्यस्तु जागर्तीति विनिश्चितम् ॥ ॥ १२ ॥ इति श्रीब्रह्मयामले स्वरोदये षडंगेन नरपतिजयचर्यायां खलचक्रं समाप्तम् ॥
अथ खलचक्रम् ॥ चतुरस्त्रमिति ॥ १ ॥ २ ॥ ३ ॥ यद्दिन इति ॥ मतांतरे सूर्यनक्षत्रादपसव्येन नक्षत्रन्यासः खले कपोतन्यायेन भटानां रणे प्रवेशः खलशब्दार्थोऽत्र ॥ ४ ॥ ५ ॥ ६ ॥ ७ ॥ ८ ॥ अवगूहति आवृणोति ॥ ९ ॥ १० ॥ ११ ॥ १२ ॥ इति नरपतिजयचर्याटीकायां जयलक्ष्म्यां खलचक्रं समाप्तम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com