________________
(१६६)
नरपतिजयचर्यापानीयं दिनान्येकत्रिसप्तकम् ॥ २२ ॥ एवं जलाख्यनाडिस्थे चंद्र मिश्रग्रहान्विते ॥ दिनाधं दिवसं पंचदिनानि जायते जलम् ॥२३॥नीरनाडिगते चंद्रे तत्रस्थैः पूर्ववद्ग्रहैः ॥ यामं दिनार्धक त्रीणि दिनानि जायते जलम् ॥ २४ ॥ अमृतादित्रये यत्र. भवंति सर्वखेचराः ॥ तत्र वृष्टिः क्रमाज्ञया धृत्यर्करसवासरैः ॥ २५ ॥ सौम्यनाडीगताः सर्वे वृष्टिदास्ते दिनत्रयम् ॥ शेषनाडयां महावातदुष्टवृष्टिप्रदा ग्रहाः ॥ २६ ॥ निर्जला जलदा नाडी भवेद्योगे शुभाधिके ॥ क्रूराधिकसमायोगे जलदोप्यंबुदाहकः ॥ २७ ॥ याम्यनाडीस्थिताः क्रूरा अनावृष्टिप्रसूचकाः ॥शुभयुक्ता जलांशस्थास्तेऽतिवृष्टिप्रदा ग्रहाः ॥ २८ ॥ एकनाडीसमारूढौ चंद्रमाधरणीसुतौ ॥ यदि तत्र भवेजीवस्तदैकार्णविता मही ॥२९॥ बुधशुक्रौ यदैकत्र गुरुणा च समन्वितौ ॥ चंद्रयोगे तदा काले जायते वृष्टिरुत्तमा ॥३०॥ जलयोगे समायाते तदा चंद्रसितौ ग्रहो ॥ रैदृष्टौ युतौ वापि तदा मेघोल्पवृष्टिदः ॥३१॥ उदयास्तमये मार्गे वक्रयुक्त च संक्रमे ॥ जलनाडीगताः खेटा महावृष्टिप्रदायकाः ॥ ३२ ॥ ब्रजति यदि कुजः पतङ्गमार्गे घट इव भिन्नतले जलं ददाति ॥ यदि भवति च भास्कराग्रगामी प्रलयघनानपि शोषितुं समर्थः ॥ ३३ ॥ इति श्रीयामलीयस्वरोदये सप्तनाडीचक्रम् ॥
पीयूषोत । प्रावृषि काले अमृताख्यनाडीगतश्चंद्रः आश्लेषामघाश्रवणधनिष्ठागतः पुनस्तत्रैव नाडयां शुभाशुभमिश्रिता ग्रहा भवति तदा पानीयं भवति । कतिदिनानि पानीयं भवति तत्रायं विधिः । द्विचतुः पंचपानीयं शुभाशुभाभ्यां पीयूषनाडीगश्चंद्रो युक्तो वेधितः द्वादशारचक्रे दृष्टश्च तदा दिनद्वयेन पानीयं भवति । तत्र चतुर्भिर्घहै: पापद्वयशुभद्रयैः एवं चतुर्भिग्रंयुक्तो वेधितश्च पीयूषनाडीगतस्तदा चतुर्दिनानिव्याप्य पानीयम् । यदापंचभिःशुभपापैस्तदा पंचदिनानि व्याप्य पानीयम्।अथैकनक्षत्रगतश्चंद्रः एकदिनवर्षणं युक्तमेतत् । द्विचतुःपंचपानीयमिति कथं संपद्यते । तत्रोच्यते । प्रावृद्धकाले अयं वर्षणयोगः यदा एवंविधो योगश्चंद्राद्भवति द्वि २ चतुः४ पंचभि ५ ग्रेहेर्यथासंख्यं द्विदिनं चतुर्दिनं पंचदिनानि पानीयमिति योग्यम् ॥२२॥ योगांतरमाह ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com