________________
जयलक्ष्मीटीकासमेता ।
( १६५ ) शुभाशुभा द्वित्र्याद्या महावातं कुर्युः उत्पातरूपं वायुं कुर्युः । उत्थितांतकाः पर्वताग्रवृक्षप्राकारादुत्थितानामुन्मूलनकरा वाता भवति वायुनाडीगताः रविनाडीगता ग्रहा वायुमात्रम् । द्वयादिभिः प्रचंडो वायुः । दहननाडीगता वाता दाहं कुर्वेति खरतररविरश्मिभिः सस्यानि शुष्यंति दहना भौमनाडी ॥ १४ ॥ सौम्यनाडीस्थिता ग्रहा मध्यफलदाः शुभा नातिशुभं पापा नातिपापं पापा नातिवायुं कुर्वेति नाति दाहम् । नीरनाडीगता शुभाशुभा मेघवाहका भवंति मेघावृतं व्योम भवति दुर्दिनमित्यर्थः । जलनाडीगता शुभाशुभं जलं प्रयच्छंति । अमृताख्यानाडीगता अतिजलम् । सप्तनाडीफलानि चंद्रयोगे सति बोद्धव्यानि ॥ १५ ॥ एकोप्येतत्फलं दत्ते स्वनाडीसंस्थितो ग्रहः ॥ सुभूतः सर्वनाडीस्थो दत्ते नाड्युद्भवं फलम् ॥ १६ ॥ प्रावृङ्काले समायाते रौद्रऋक्षगते वौ ॥ नाडीवेधसमायोगे जलयोगं वदाम्यहम् ॥१७॥ यत्र नाडीस्थितश्चंद्रस्तत्रस्थाः खेचरा यदि ॥ क्रूरसौम्यविमिश्राश्च तदिने वृष्टिरुत्तमा ॥ १८ ॥ एकऋक्षसमायोगो जायते यदि खेचरैः ॥ तत्र काले महावृष्टिर्यावत्तस्यांशके शशी ॥ १९ ॥ केवलैः सौम्य - पापैर्वा ग्रहैर्विद्धो यदा शशी । तदातितुच्छं पानीयं दुर्दिनं तु भवे
ध्रुवम् ॥ २० ॥ यस्य ग्रहस्य नाडीस्थश्चंद्रमास्तद्ग्रहेण चेत् ॥ दृष्टो युक्तः करोत्यभो यदि क्षीणो न जायते ॥ २१ ॥
एकोपीति । एकोपि स्वस्वनाडीगतः स्वनाडीसमफलं करोति । यथा शनिः स्वनाडिस्थः कृत्तिका च विशाखा च मैत्राख्यं भरणी तथेत्यत्रादिस्वनाडीस्थचंडाख्यना'डिस्थश्चंडं प्रचंडं वायुं करोति । एवं सूर्यः स्वनांडीस्थो वायुं करोति । भौमः स्वनाstri दाहं करोति । जीवः स्वनाडीस्थो मध्यमः । नीरनाडीगतो शुक्रो नीरं करोति : बुध जलनाडीस्थ जलम् । चंद्रमा अमृतनाडीगतोमृतं जलं प्रयच्छति । एकोपि भौमः पुनः सर्वनाडीगतो सर्वफलं चंडाख्यादि करोति । एतावदर्थाः सर्वदैव चिंत्याः ॥ १६ ॥ अधुना आर्द्रादिगते खौ सप्तनाडीगते जलयोगान्वक्ष्ये । प्रावृट्कालेति ॥ १७ ॥ यत्र नाडीति । समचतुः कोष्ठस्थः नक्षत्राणां वेधः तेन यत्र कुत्रचित् चतुर्णां मध्ये ग्रहः स्थितः ग्रहेण चंद्रो विध्यते ॥ १८ ॥ एकऋक्षेति ॥ १९ ॥ केवलैरिति । सौम्यैरेव केवलैः पापैर्वा केवलैर्यदि शशी विध्यते तदा तद्दिने स्वल्पं तुच्छं पानीयं पतति परं मेघदुर्दिनं भवति ॥ २० ॥ २१ ॥ पीयूषनाडिगश्चंद्रस्तत्र खेटाः शुभाशुभाः ॥ द्विचतुःपंच
१ त्रिचतुः इत्यपि पा० ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com