________________
(१६४)
नरपतिजयचर्याकृत्तिका च विशाखा च मैत्राख्यं भरणी तथा ॥ उर्जाद्या शनिनाडी स्याञ्चंद्रनाडयभिधीयते ॥ ४॥रोहिणी स्वातिज्येष्ठाश्विद्वितीया नाडिका मता ॥ आदित्यप्रभवा नाडी वायुनाडी तथैव च ॥ ५॥ सौम्यं चित्रा तथा मूलं पौष्णमृक्षं चतुर्थकम् ॥ तृतीयांगारका नाडी दहनाख्या तथैव च ॥६॥ रौद्रं हस्तं तथा पूर्वाषाढा भाद्रा तथोत्तरा ॥ चतुर्थी जीवनाडी स्यात्सौम्यनाडी प्रकीर्तिता ॥ ७॥ पुनर्वसूत्तराफल्गुन्युत्तराषाढतारकाः ॥ पूर्वाभाद्रा च शुक्राख्या पंचमी नीरनाडिका ॥८॥ पुण्यक्ष फल्गुनीपूर्वा अभिजिच्छततारका ॥ षष्ठी नाडी च विज्ञेया बुधस्य जलनाडिका ॥ ९॥ आश्लेषाक्षं मघाकर्णधनिष्ठा च तथैव च ॥ अमृताख्या हि विज्ञेया सप्तमी चंद्रनाडिका ॥ १० ॥ मध्यमार्गे स्थिता सौम्या नाडी तस्यायपृष्ठतः ॥ सौम्ययाम्यगतं ज्ञेयं नाडिकानां त्रिकंत्रिकम् ॥ ११ ॥क्रूरा याम्यगता नाडयः सौम्याः सौम्यदिगाश्रिताः ॥ मध्यनाडी च मध्यस्था ग्रहरूपफलप्रदा ॥ १२॥ एकनाडी गताब्दाया ग्रहाः क्रूराः शुभा यदि ॥ ततो नाडीफलं वाच्यं शुभं वा यदि वाशुभम् ॥ १३ ॥ ग्रहाः कुर्युर्महावातं गताश्चंडाख्यनाडिका॥ वायुनाडी गता वायुं दहन्यामतिदाहकाः॥१४॥ सौम्यनाडी गता मध्या नीरस्था मेघवाहकाः॥ जलायां वृष्टिदश्चंद्रोनाडिकाश्चातिवृष्टिदाः ॥१५॥
अथ सप्तनाडीचक्रम् ॥ १॥२॥ ३ ॥४॥५॥६॥७॥ ८॥९॥ १० ॥ मध्यमाति ॥ सप्तनाडीचक्रव्याजेन ग्रहाणां सप्तमार्गाः सौम्ययाम्याः सप्तमार्गाणां मध्ये मध्यस्था जीवनाडी सौम्या तस्याग्रे त्रिनाडीपंथानः सौम्याः उत्तरमार्गाः सौम्यनाडीपृष्ठे याम्यमार्गस्त्रिनाडिकः॥११॥तत्र स्थानं ग्रहाणां फलमाह । क्रूरायाम्यगता इति ॥१२॥१३॥प्रथमतो दक्षिणमार्गगतानां ग्रहाणां फलमाह॥ग्रहाइति चंडाख्यनाडिगल।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com