________________
(१५६)
नरपतिजयचर्यागता नाड्यो भग्नाः षष्टयाप्तशेषके ॥ दिनेंदुभुक्तियुक्तोऽसौ भवे. तत्कालचंद्रमाः॥ ११ ॥
अथ अहिवलयचक्रम् ॥ अहिचक्रमिति ॥ १॥ २ ॥ निधिरिति ॥ ३ ॥ ऊर्ध्वरेखेति ॥ ४ ॥ तत्रेति ॥ ५॥ अहिर्बुध्यति ॥ ६ ॥ विधिरित ॥ ७ ॥ विश्वमिति ॥८॥ एवमिति ॥ ९॥ अश्वीशेति ॥ १० ॥ तत्कालचन्द्रमाह । उदयादीति ॥ ११॥ षष्टिघ्नं तं निशानाथं शरवेदाप्तकं पुनः ॥ युगैः शेषं भवेद्यत्तत्प्रागादिचक्रवक्रगम् ॥ १२ ॥ चंद्रवत्साधयेत्सूर्यमृक्षस्थं चेष्टकालिकम् ॥ पश्चाद्विलोकयेत्तौ च स्वः वा चान्यभे स्थितौ ॥ १३ ॥ चंद्रऋक्षे यदाद तत्रास्ति निश्चितं निधिः ॥ भानुऋक्षे स्थितौ तौ चेत्तदा शल्यं च नान्यथा ॥ १४ ॥ स्वस्वभे द्वितयं ज्ञेयं नास्ति किंचिद्विपर्यये ॥ नवांशकानुमानेन भूमानं तस्य कल्पयेत् ॥ स्थितं न लभते द्रव्यं चंद्रे क्रूरग्रहान्विते ॥१५॥ पुष्टे चंद्रे भवेन्मुद्रा क्षीणे चंद्रेऽल्पको निधिः ॥ ग्रहदृष्टिवशात्सोपि विज्ञेयो नवधा बुधैः ॥१६॥ हेम तारं च ताम्रारं रत्नं कांस्यायसं त्रपु॥ नागं चंद्रे विजानीयाद्भास्करादिग्रहेक्षिते ॥ १७॥ मिर्मिश्रं भवेद्रव्यं शून्यं दृष्टिविपर्यये ॥ सर्वग्रहेक्षिते चंद्रे निर्दिष्टोसौ महानिधिः॥ १८ ॥ शुभक्षेत्रगते चंद्रे लाभः स्यान्नात्र संशयः॥ पापक्षेत्रे न लाभो हि विज्ञेयः स्वरपारगैः॥ १९ ॥ हेम तारं च तानं च पाषाणं मृन्मयायसम् ॥ सूर्यदिगृहगे चंद्रे द्रव्यभांडं प्रजायते ॥ २० ॥ भुक्तराश्यंशमानेन भूमानं कामिकैः करैः॥ नीचे द्विघ्नं परं नीचे जलस्थोऽसौ भवेन्निधिः ॥ २१ ॥ स्वोच्चस्थे भूर्ध्वगं द्रव्यं नवांशकक्रमेण च ॥ परमोच्चे परे तुंगे भित्तिस्थमृक्षसंक्रमे ॥ २२ ॥ चद्रांशभुक्तमानेन द्रव्यसंख्या विधीयते ॥ तस्या दशगुणा वृद्धिः षड्वगंदबलक्रमात् ॥ २३ ॥ अधिष्ठितं भवेद्रव्यं यत्र चन्द्रो ग्रहान्वितः॥ तदधिष्ठापको ज्ञेयो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com