________________
( १५४)
नरपतिजयचर्याएकनाडीस्थिता दुष्टा भर्तुश्चैव कुलांगना ॥ तस्मान्नाडीव्यधो वीक्ष्यो विवाहे शुभमिच्छता ॥ १०॥ हृन्नाडीवेधने भर्ता मध्यनाडीव्यधे द्वयम् ॥ पृष्ठनाडीव्यधे कन्या म्रियते नात्र संशयः॥ ॥ ११ ॥ समासन्ने व्यधे शीघ्र दूरवेधे चिरेण तु ॥ वेधांतरभमानेन वेधे दुष्टं प्रजायते ॥ १२॥ एकः जायते यत्र विवाहे वरकन्ययोः॥ मूलवेधो भवेत्तत्र महादुष्टफलप्रदः ॥ १३ ॥ एकनाडीस्थिता यत्र गुरुमंत्राश्च देवताः ॥ तत्र द्वेषं रुजं मृत्यु क्रमेण फलमादिशेत् ॥ १४ ॥ प्रभुः पण्यांगना मित्रं देशं ग्रामं पुरं गृहम् ॥ एकनाडीगता भव्या विरुद्धा वेधवर्जिताः ॥१५॥ क्रूरग्रहाक्रांतनाड्यां यस्य जन्मःसंभवः ॥ तस्य मृत्युनं संदेहो यात्रायुद्धे रुगुद्भवे ॥ १६ ॥ द्वयादिऋरव्यधो यस्य जन्मकै च त्रिनाडिके ॥ हानिर्विघ्नं भयं क्लेशो जायते वेधबंधनम् ॥ १७ ॥ एवं सौम्यव्यधो यस्य जन्मऋक्षे प्रजायते ॥ जयो लाभं सुखं तस्य जायते नात्र संशयः ॥ १८ ॥ शुभाशुभग्रहैर्विद्धा यस्य जन्मक्षनाडिका ॥ तस्य मिश्रं फलं वाच्यं नाडीचक्रे स्वरज्ञकैः॥ ॥ १९ ॥ एकांशेन व्याधिमृत्युः स्वल्पं दुष्टं द्वितीयकम् ॥ एतच्चक्र समालिख्य अश्विन्यायं त्रिपंक्तितः ॥२०॥ एवमिति ॥ ६॥ ७॥ ८॥९॥१० ॥ हृन्नाडीति ॥११॥ समासन्नोत॥१२॥ एकःमिति ॥ १३ ॥ १४ ॥ १५ ॥ १६ ॥ १७ ॥ १८ ॥ १९ ॥२०॥ वेधो द्वादशनाडीभिः कर्तव्यः पन्नगाकृतिः॥ आद्यांशेन चतुर्थाशं चतुर्थाशेन चादिमम् ॥ द्वितीयेन तृतीयं तु तृतीयेन द्वितीयकम् ॥ २१ ॥ एवं भांशव्यधो येषां जायते वरकन्ययोः ॥ तेषां मृत्युनं संदेहः शेषांशाः स्वल्पदुष्टदाः ॥ २२ ॥ गुरुमंत्राश्च देवाश्च वेधांशस्था न शोभनाः ॥ अन्यांशकगता भव्या ज्ञातव्याः सर्वदा वधैः ॥ २३॥ प्रभुः पण्यांगना मित्रं देशं ग्रामं पुरं गृहम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com