________________
( १५२)
नरपतिजयचर्याअष्टौ सविंशतिर्वारे तिथौ त्रिंशच भे तथा ॥३॥ ऋक्षाणि योगे भान्येवं मुहर्ते तिथयो हताः ॥गतनाडी हता षष्टया भक्ता युक्तं स्वसंख्यया ॥ ४॥ अष्टाविंशत्तथा त्रिंशत्सतविंशत्तथा तिथिः॥ षष्टिभाग फलं लब्धं स्वस्वसंख्यायुतं भवेत् ॥५॥ इष्टकालिकपञ्चांग वाराद्यैः शेषिते भवेत् ॥ सामान्येन प्रमाणं स्यात्पंचांग यदि तत्र किम् ॥६॥ शुभाशुभानि तत्र स्युरेकस्मिन्नपि वासरे ॥ तस्मात्सूक्ष्ममिदं ज्ञेयमेकस्मिन्नपि वासरे ॥७॥ स्थूलवत्सर्वकार्याणि विधेयान्यत्र सर्वदा ॥ वर्तमानं तु पञ्चांगं तत्कालघटि. कादलैः॥८॥ युक्तं तत्कालपञ्चांगं तदने प्रत्ययो भवेत् ॥९॥इति श्रीनरपतिजयचर्यायांतात्कालिकातथ्यादिपञ्चांगचक्रं समाप्तम्॥
अथ पंचांगम् । अथ वक्ष्यामीति ॥ १॥ वारादिकमिति ॥२॥३॥४॥५॥ इष्टकालिकति ॥ ६ ॥ शुभाशुभानीति ॥ ७॥ ८ ॥ युक्तमिति ॥९॥ इति पंचांगम् ।
नाडीचक्रम् ।
चस्वाव
अथ नाडीचक्रम् ॥ आदिकं लिखेच्चक्रं मृगांतं च त्रिनाडि. कम् ॥ भुजङ्गसदृशाकारं मध्ये मूलं प्रकीर्तितम् ॥ १॥ यद्दिने एकनाडीस्थाश्चन्द्रनामःभास्कराः॥ तर्दिने वर्जयेत्तत्र विवादे विग्रहे रणे ॥ २॥ इति नाडीचक्रम् ॥ अथ नाडीचक्रम् ॥ आदिकमिति ॥ १ ॥२॥ इति नाडीचक्रम् ॥
द्वादशनाडीचक्रम् ।
अश्विन्यादि लिखेच्चक्रं साकारं त्रिनाडिकम् ॥ तत्र वेधवशाज्ज्ञेयं विवाहादि शुभाशुभम् ॥ १ ॥ नाडीवेधेन नक्ष
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com