________________
जयलक्ष्मीटीकासमेता। (१५१) वध्याः वाच्याः प्रस्तावात् । मूषकशब्देन गोधादयः मूषको वा । पूर्वाभाद्राभिजितौ बभ्रुर्भानां जातिरिति चिंता ॥ ११ ॥ १२ ॥ १३ ॥ १४ ॥ अथवा गणयेद्धीमान्वक्ष्यमाणक्रमेण तु ॥ तस्मिन्नहनि यो वारस्तिथिर्या तदिने तु तत् ॥ १५॥ एकीकृत्य भवेदेवं वर्गितं दलितं भजेत् ॥ त्रिघनेन च शेषांकसंख्यप्राणिवधं दिशेत् ॥ १६ ॥ दले शेषे विजानीयायुद्धादकः पलायते ॥ वक्रितैरपि निर्देश्यं प्राणिनां त पलायनम् ॥१७ ॥ अथवापि तिथिं वारं युक्तं कृत्वा तु वर्जितम् ॥ दलितं चेष्टनाडीभिर्भक्तं शेषांकसंख्यया ॥ प्राणिनां वधमादिश्यमाकृर्ति राशिऋक्षवत् ॥ १८ ॥ स्खलनं जन्मभे वाच्यं दुःखं चैव विपत्कभे ॥ अङ्गभेदाश्च निधने प्रत्यरौ पतनं दिशेत् ॥१९॥ शेषे तु शोभनं वाच्यं फलं दैवविदा सदा ॥ खेचरं भूचरं प्रोक्तं नृपाणां मृगयार्थनाम् ॥२०॥ इति नरपतिजयस्वरोदये खेचरभूचरचक्रम्॥
अथान्य आखेटिकयोगः । अथवेति ॥ १५ ॥ अनेनाखेटिकस्य भमाह ॥ एकीकृत्यति । अनेनारखेटकस्य हरिणादिलाभमाह । उदाहरणम् । भरणीनक्षत्रं पापाक्रांतमत्र तदिने भसंख्या द्विः २ तिथिः षष्ठी तयोर्योगेऽष्टौ ८ एकं त्यक्त्वा सप्त ७ अस्य वर्ग:४९ अस्य दलं २४ । ३० सप्तविंशतिभिः २७ भाजितः शेष चतुर्विंशतिः २४ । ३० तदिने प्राणिलाभसंख्यां वदेदित्यर्थः ॥ १६ ॥ दलेति । शेषे दलिते यद्येकस्तिष्ठति तदा यूथादेकस्य पलायनं ब्रूयात् । वक्रग्रहेण यन्नक्षत्रयोनिपाणी यो विद्धस्तत्रिगुणः पलायते ॥ १७ ॥ अथान्यद्वध्यप्राणिनां संख्यामाह । अथवेति । उदाहरणम् । तिथि षष्ठी ६ वारो गुरुः५ तद्योगे एकादश ११ अस्य वर्गः १२१ एकविंशत्यधिकं शतं दलितमिदम् ६० । ३० तदिने लुब्धकयात्राद्यष्टौ घटीः ८ अष्टाभिर्घटीभिः भक्तं शेषं साईचत्वारि ४ । ३० प्राणिनां संख्यैषामाकृतिः पूर्ववत् ॥ १८ ॥ अथाखेटिकानां नक्षत्रफलमाह । स्खलनमिति । जन्मनक्षत्रे यदि मृगयायै गम्यते तदा स्खलनं पादस्खलनं वाच्यम् । विपन्नक्षत्रे बहु दुःखं वदेत् । अष्टमतारायां निधनं प्रत्यरौ पंचमतारायां तु. रागात्पतनं वदेत् । सप्तमतारापि वर्जनीया । शेषतारायां द्विचतुःषष्ठनवमतारायां शुभं वदेत् ॥१९॥ २० ॥ इति नरपतिजयचर्याटीकायां जयलक्ष्म्यां खेचरभूचरचक्रम् ।
अथ पञ्चांगम् ॥ अथ वक्ष्यामि पञ्चांगं तात्कालिकमनुत्तमम् ॥ येन विज्ञातमात्रेण यातुर्यात्राफलं भवेत्॥१॥वारादिकं च पञ्चांगमुच्यते तत्र तच्छृणु ॥ वारस्तिथिश्च ऋक्षाणि योगश्च समुहृतंकः ॥२॥ वारादिकं हि पञ्चांग गतनाडीगुणाः क्रमात् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com