________________
( १५०)
नरपतिजयचर्यावक्रोचे त्रिगुणं वदेत् ॥ ऋक्षपादचतुष्के तु ग्रहयोगक्रमावदेत् ॥ प्रहारं प्राणिनां जातं प्रापश्चात्पृष्ठपार्श्वगम् ॥ १० ॥
शुभैरिति ॥ यावद्भिर्लग्ने शुभैर्लग्नगतैनं सप्तमं वीक्षितं भवति तावत्संख्याः प्राणिनो वध्या भवंति । स ग्रहो वक्रो यदि उच्चस्थो वा तदा त्रिगुणं वाच्यम् ॥ ६ ॥ अथ मृगयाकर्तुः शुभाशुभमाह । कुशलमिति । मृगयादिने मृगयाकर्तुः शुभतारायां संपत्क्षेमसाधकमैत्रातिमैत्रतारायां शुभमादिशेत् । कुशलेन मृगयासिद्धिः । जन्मविपत्प्रत्यरिवधसंज्ञिकायां तारायां क्लेशं वदेत् । अनर्थान् व्याघ्रादिभिर्भयमादिशेत् । अश्वात्पतनादिकमपि । अथ शुभा अपि ताराः पापविद्धा भवंति तदापि क्लेश एव ॥७॥ अथान्यविशेषमाह । चंद्राखेटेति । आखेटकस्य मृगयाकर्तुर्जन्मनक्षत्रदिननक्षत्रयोर्मध्ये यावांत तानि पापग्रहाधिष्ठितानि भवंति तावत्संख्यप्राणिनां वधमादिशेत् । तेन किं दिननक्षत्रात् आखेटकनक्षत्रं यावदिति तयोर्मध्ये ॥ ८ ॥ अत्राग्नेविशेषमाह । शुभयुतैरिति । चंद्राखेटकयोर्मध्ये यावन्ति नक्षत्राणि शुभयुक्तानि भवन्ति तावत्संख्या: प्राणिनः पलायन्ते ॥ प्राणिनां जातिः तजातिः प्राणिनः सूकरादयः एवं नक्षत्रजातिवजातिर्वाच्या ॥ ९॥ पापसंयोगेति । चन्द्रराश्याखेटिकराशिमध्ये या राशयः पापयुक्तास्तदाकृतिप्राणिनो वध्याः । यथा मेषराशियदि पापयुक्तस्तदा मृगादयो वध्या भवन्ति । वृषराशौ पापाधिष्ठिते महिषादयः। मिथुने वानरादयः। कर्के गोधादयः । सिंहे व्याघ्रादयो नखिनः । वृश्चिके सर्पादयः कीटाः । धनुषि गवयः। मकरे जलजाः नकादयः मीने मत्स्यकूर्मादयः एवं यथाबुद्ध्या वक्तव्याः। लग्नादिषट्सु पापैः पूर्वांगे घातः द्यूनादाद्यपर्यंते पश्चाद्भागे घातं वदेत् । सप्तमे अष्टमे घातं वदेत् ॥ १० ॥ छागौ तु कृतिकापुष्यौ सर्पभे रोहिणीमृगौ ॥ आामले तथा श्वानौ मषको पितृवासवौ ॥११॥ सर्पादिती च मार्जारौ व्याघ्रौ चित्राविशाखके ॥ अर्यमे तोयभे गावौ मैत्रे शके तथा मृगौ ॥ १२ ॥ हस्तस्वाती च महिषौ तुरङ्गावश्विवारुणौ ॥ मर्कटौ विष्णुविश्वाख्यौ याम्यपौष्णे मतंगजौ॥ १३ ॥ भगाहिर्बुध्न्यभे सिंहौ विज्ञेयौ दैवचिन्तकैः॥ पूभाद्राभिजितो बभ्रुर्भानां जातिरितीरिता ॥ १४॥
अथ नक्षत्रयोनयः। छागाविति चतुर्दश योनयः छागौ तु कृत्तिकातिष्यौ पापाक्रांतमृगादयो वध्याः आर्द्रामूलयोवैधे सृगालादयोनखिनः। अथ च । आखेटकस्यैव श्वानो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com