________________
जयलक्ष्मीटीकासमेता।
(१४९) तौ॥३॥ सिद्धिोंगे द्वयोः केन्द्रे क्लेशानर्थप्रदौ च तौ ॥ पापांशगौ कुजज्ञौ तु तल्लोपे मृगया नहि ॥ ४ ॥ सौम्यो लग्नपतिः सिद्धिः क्रूरो द्यूनपतिर्यदि ॥ जलः जलजैः खेटलैः स्यान्मृगया स्फुटम् ॥ ५॥
अथ खेचरभूचरचक्रम् । खेचरमिति । अथ खेचरभूचरयोर्विषयविभागः । यस्मिन् लग्ने यात्रा मृगयाथ तत्तस्मात्पडाशिपर्यंत खेचरम् । सप्तमतो व्ययपर्यंतं भूचरम् । यतो लग्नादधास्थं चक्राई सप्तमात् ऊर्ध्वस्थं यावत् लग्नम् । अमुमर्थ फलयति । यस्मिल्लग्ने वक्रगा यूनादिस्था भवंति ते च स्वभावमार्गगास्ते खेचरस्थाः कार्याः॥ १ ॥ ततो योगः । पापा इति । पापग्रहैर्यदि इष्टमुत्पद्यते तस्मिन् योगैर्यदि मृगयादिसिद्धिः । यथा। "वक्री शनिभौमगृहे प्रपन्नश्छिद्रे ८ ऽथ षष्ठे ६ ऽथ चतुष्टये ११४७।१०। वा॥ कुजेन संप्राप्तवलेन दृष्टे वर्षद्वयं जीवयति प्रजातम्" इत्यादिपापग्रहोत्पन्नौरष्टयोगैर्यदि मृगयायात्रा तदा सिद्धिरिति । आगमप्रमाणम् । तथा च अवमार्धप्रहरकालवेलांतं कुलि कव्यतिपातवैधृतिगंडातिगंडकुलिशादियोगजदुष्टयोगाद्यनिष्टसूचका योगाः सिद्धिदाः॥२॥ पंचांगेति ॥ तिथयो रिक्ताः अमावास्या आभरणीमघाश्लेषादीनि नक्षत्राणि व्याघातशूलपरिघव्यतीपातयोगा। रविभौमशनयो वाराः । करणानि विष्टिशकुनिनामगरवणिजादीनि करणानि पंचांगमिदं लग्नाद्यदि छूने पापा बलवर्जिताः युद्धयोगे ते बलान्विताः तस्मिन्योगे मृगया चेष्टा । तथा चाग्रे वक्ष्यति । यतो यूनलग्ने वध्याः प्राणिनो ज्ञेयाः । लग्नपानपयोोंगे यात्रा मृगयासिद्धिः ॥ ३ ॥ पापांशगाविति । तदा मृगयासिद्धिः तुलालग्नेऽयं योगः वृषलग्ने चापि पूर्णे चन्द्रे कर्कलग्नेचापि ॥ ४ ॥ अथ मृगयाविशेषः । जलक्षेति । अन्यतो व्याख्यानम् । वृश्चिकवृषकर्कटतुलामकरमीनकुंभधराः सजलराशयः। भृगुचन्द्रौ जलात्मको ज्ञेयौ । एवं लग्नेषु भृगुचन्द्रौ लग्नस्थौ तदा जले मृगयासिद्धिः ॥५॥ शुभैर्लग्नगतैनं यावद्भिश्चेक्षितं ग्रहैः ॥ तत्संख्या प्राणिनो वध्या वक्रोच्चस्थैस्त्रिसंगुणाः ॥६॥ कुशलं शुभनक्षत्रे क्लेशोऽनर्थस्तथा शुभे॥ शुभपापेन विद्धं चेसदा दोषः प्रजायते ॥ ७ ॥चंद्राखेटकयोर्मध्ये यावद्भान्यशुभग्रहैः ॥ अधिष्ठितानि तत्संख्यप्राणिनां वधमादिशेत् ॥८॥ शुभयुक्तश्च तत्संख्यप्राणिनां च पलायनम् ॥ नक्षत्रजातिवज्जातिमाकृति वर्णसंस्थिताम् ॥ पापसंयोगतो ब्रूयाद्राशिभिर्वा यथाक्रमात् ॥९॥ द्विगुणं स्वांशमित्रांशे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com