________________
(१४८)
नरपतिजयचर्यान्यादि लिखेच्चक्र रेवत्यंतं त्रिनाडिकम् ॥ सर्पाकारे च ऋक्षाणि प्रत्येकै च वदाम्यहम् ॥२॥ अश्विन्यादितिज्ञेया तथा चोत्तरफाल्गुनी ॥ हस्तो ज्यष्ठा तथा मूलं शतभं पूर्वभाद्रकम् ॥३॥ प्रथमा नाडिका पश्चात् भरणीमृगशीर्षके ॥ पुष्यः सभाग्यश्चित्रा च मैत्रमाप्यं च वासवम् ॥ ४॥ अहिर्बुधन्यमिति ज्ञेया द्वितीया नाडिका बुधैः ॥ तृतीया नाडिका ज्ञेया वहिब्रह्मभुजंगमम् ॥५॥ मघा स्वाती द्विदैवत्यं विश्वं विष्णुश्च रेवती॥ग्रहसयोगतो ज्ञेयमेतासु च शुभाशुभम् ॥६॥ यात्रिकं यत्तु नक्षत्रं आड्यां यात्रादिभादितः ॥ यावती तावती संख्या तत्रस्थग्रहसंगुणा ॥७॥अक्षभक्ते तु यल्लब्धं योजनं तदुदाहृतम्॥शेषात्कोशादिका संख्या विज्ञेया दैवचिंतकैः ॥८॥ भंगस्तत्र तु विज्ञेयो यात्रांशे पापखेचरैः ॥ सौम्यसंयोगतः सौख्यं विशेषणापि तच्छृणु ॥९॥ त्रासः सूर्याद्भवेन्मृत्युः कुजात्सोराच्च बंधनम् ॥राहुसंयोगतो भंग इति पापविनिर्णयः॥ १० ॥स्त्रियः समागमश्चंद्राकलावित्संगमो बुधात् ॥ जीवेन धार्मिकैः शुक्रात्पडितैरुतमानतः ॥११॥द्विघ्नं स्वक्षेत्रमित्रः त्रिघ्नं वक्रे तथोच्चगे।यात्रायां सर्वदा चिंत्यं पथचक्रमिदं बुधैः ॥१२॥ इति द्वितीयपथचक्रम्॥
अथ द्वितीयपथचक्रम् ॥ पथचक्रमिति ॥ १ ॥ अश्विन्यादीति ॥ २ ॥ ३ ॥४॥ ॥५॥ मघास्वातीति ॥ ६॥७॥८॥९॥ १० ॥ ११॥ द्विघ्नमिति ॥ १२ ॥ इति द्वितीयपथचक्रम्। ॥ अथखेचरभूचरचक्रमाखेचरं भूचरं वक्ष्ये खेचरभूचरचक्रम् । मृगयासिद्धिदं नृणाम्॥ऊर्द्ध तु खेचरं चक्रमधो भूचरमुच्यते ॥१॥पापारिष्टकरैर्योग{गयासिद्धिरुत्तमा॥ द्यूने हीनबलैः पापैयु द्धयोगैर्बलान्वितैः ॥२॥ पंचांगसंधैर्दुष्टै, स्यायोगैः पापाद्यगोचरैः॥विशेषाद् द्यूनलग्नेशौ ज्ञेयो हेतू वदामि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com