________________
जयलक्ष्मीटीकासमेता। (१४७) व्यवस्थिताः॥ सूर्यमार्गेण ये लग्नाः खेचराः खेचरे स्थिताः॥३॥ भूचके संस्थितैः पापैः खे चक्रे सौम्यखेचरैः॥ यायिस्थायिबलं ज्ञेयं क्रमात्स्वरविचक्षणैः॥४॥सौम्याश्च भूचरे चक्रे क्रूराः खेचरगा यदा॥संहारो जायते तत्र सैन्ययोरुभयोरपि ॥५॥ भूचरस्था ग्रहा यत्र दृश्यन्ते च शुभाशुभाः॥यायी संहारमायाति स्थायी चार्धक्षयो जयी ॥६॥ खेचरे खेचराः सर्वे सौम्याः सौम्यगता यदा॥ स्थायिनो बलसंवर्तो यायी भवति सक्षतः ॥७॥ खेचरे भूचरे चक्रे यदा मिश्राः शुभाशुभाः ॥ तदा मिश्रफलं वाच्यं स्थायिनो यायिनोपि वा ॥८॥ इति भूचरखेचरचक्रम् ॥
अथ भूचरखेचरचक्रम् । अधःस्थमिति ॥१॥मेषादीति ॥२॥ ये ग्रहा इति ॥३॥ भूचक्रेति ॥ ४॥सौम्याश्चेति ॥५॥६॥७॥८॥इति भूचरखेचरचक्रम् ।
पथचक्रम् ॥
अंभकरोमओपुर लेमपूरहचिस्वाविअन्ये पूरअवधेशपूरे
अथ पथचक्रम् ॥अश्विन्यादीनि धिष्ण्यानि पांक्तियुक्त्या लिखन बुधः ॥ नाडीचतुष्टये वेधः साकारपथाख्यके ॥१॥ क्ररवेधस्थिता नाडी तद्धिष्ण्येन युतेदिने ॥ यात्रा युद्धं न कर्तव्यं पथचक्रफलं त्विदम् ॥ २॥ इति स्वरोदये प्रथमपथचक्रम् ॥ अथ पथचक्रम् । अश्विन्यादीनीति ॥ १ ॥२॥ इति प्रथमपथचक्रम् ।
द्वितीयपथचक्रम् ॥
अथ द्वितीयपथचक्रम् ॥ पथचक्र प्रवक्ष्यामि ख्यातं यद्बह्मयामले ॥ येन विज्ञातमात्रेण सद्यो यात्राफलं वदेत् ॥१॥ अश्वि-.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com