SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ जयलक्ष्मीटीकासमेता । ( १४५ ) पत्रं पुष्पं फलं मूलं त्वचं त्रिंशांशके विधौ ॥ जातिविप्राधिकारी स्त्री अन्त्यजास्तस्कराः क्रमात् ॥ ४६ ॥ सूर्यादिगृहगे चन्द्रे चिन्तितः पुरुषो भवेत् ॥ सूर्यादिवेश्मगे चन्द्रे कुष्ठं लांछलोहकम् ॥ ४७ ॥ मशकं तिलकस्फोटं घातं चौरस्य निर्दिशेत् ॥ गौरोऽतिगौरः श्यामश्च कृष्णो मर्कटसंनिभः ॥४८॥ चन्द्रे त्रिंशांशका वर्णा मानवानां विलोमतः ॥ ग्रहदृष्टिकृता वर्णास्ते च वर्णाः पुरोदिताः । ज्ञातव्याः सर्ववस्तूनां मुष्टौ वा चिन्तितेपि वा ॥ ४९ ॥ इति वेधतुम्बुरावर्ते द्रेष्काणादिज्ञानम् ॥ पत्रं पुष्पमिति । इत्यादयः श्लोका न व्याख्याताः । अत्र प्रकरणे वस्तूनां नामवेध एव मूलम् । विशेषताश्चतितस्य नष्टस्य वा चौरस्य वा नामवर्णज्ञानं वेधफलम् । अत्र वेधे योनीनां यः प्रस्तारविस्तारः कृतस्तस्य श्लोकार्थस्य परिच्छेद् एव न भवति । अधुना नष्टद्रव्यस्य चौरस्य नामधेयपरिश्रमः क्रियते । अथ प्रश्नः केनापि कृतः ममः किं वस्तु नष्टं चौरेण वा गृहीतं कुत्र वा चौरेण धृतमस्ति तत्र कर्तव्यता । शाके १४४१ समये वैशाख शुक्ल ५ पंचम्यां चंद्रवासरे घटिका १२ द्वादशदिनादौ केनापि प्रश्नः कृतः तत्र तत्कालचंद्रः ४। १६ । ५३ | २० || सिंहे चंद्रः धनुषो द्रेष्काणे चन्द्रः कन्यानवांशके चंद्रः प्रथमतस्तु राजावस्थायिकौतुकं केनापि प्रश्नः कृतः राजा किं करोतीति प्रश्ने कन्यानवांशे चंद्रः ग्रंथकारस्योक्तिः नवांशावस्था ग्राह्या तत्रैकस्य नवांशस्य कलाः २०० आसां द्वादशांशः षोडश १६ । ४० कलाश्चत्वारिंशत् विकला अत्र वर्तमानस - तदशमः अंशः पंचमो नवांशः तस्य पंचमांशोनकलाः सप्तदश वर्तते ॥ १३ ॥ २० एका द्वादशांशकला तेन किं कन्याप्रथमावस्थायां चंद्रः रतावस्थश्चंद्रो ज्ञातः । यस्य राज्ञो मेषराशिः सोपि तत्काले मेषप्रथमावस्थायां प्रवासाख्यायां राजा वर्तते प्रवासस्य कोर्थः स्वस्थानादन्यत्र कुत्रापि चलित इति ज्ञातो राजा यात्रायां च रतावस्थचंद्रस्य फलम् । अथवा यस्य मीनराशिः स मीनाद्यावस्थायां वर्तते मीनस्याद्या भुक्तात्रावस्था भोजनं कुर्वन् राजा आसीदिति कौतुकम् । अत्रापि नामसंबंधेनावस्थानयनम् । अथ नष्टं वा चारण हृतं वा तत्करणोदाहरणम् । सिंहे तत्काले कन्यानवांशे चंद्रः द्वितीयद्रेष्काणे धनूराशेः चंद्रे गुरुदृष्टिः । अथ द्वादशारचक्रं तत्र द्विपादेन रविशुक्रौ त्रिपादेन शनिराहू चंद्र एकेन । तत्र कन्यायाः प्रथमनवांशो मकरः शनिगृहं शनिवर्गाक्षरे चंद्रः प्राप्तस्तृतीयोप्यकारः क्रूराक्षरे चंद्रः क्रूरवेधोपि न रज्जुवेधचक्रे तत्कथं रज्जुवेधचक्रे सिंहस्यांतिमाक्षरेण धकारेण विध्यतेप्यकारः तुलाराशिरंतिमाक्षरेण विध्यते । सिंहतुलयोरंतिमनवांशे ग्रहाभावः । तेन किं क्रूरभे वेधरहिते क्रूराक्षरे चंद्रः नष्टं चौरविवर्जितं वस्तु ज्ञातमिति । कुत्र नष्टं तत्र सिंहराशी चंद्रः तस्य फलं प्राच्यामरण्ये नष्टं तत्रापि चतुपदाधिष्ठितायां भूमौ । अथ यदि चौरेणापहृतं भवति तदा तेन कुत्र स्थापितम् इति जिज्ञासायां विचारः । तत्र पूर्वाफाल्गुन्या द्वितीयचरणे चन्द्रः पूर्वाफाल्गुनी अधामु १० Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy