SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ (१४२) नरपतिजयचर्याधन्वी च रत्नभूषणभूषितः ॥ २४ ॥ कांद्यः पुरुषो हस्ती सूकरस्य सुखः स्मृतः ॥ मध्यस्त्री यौवनोपेता सामर्षारण्यसंस्थिता ॥ २५॥ सपास्यश्च तृतीयस्तु पुरुषः सर्पचेष्टितः॥ सुवर्णाभरणो नौस्थद्रेष्काणः कथितो बुधैः ॥ २६ ॥ सिंहाद्यः श्वा जंवुकास्यो गृध्रास्यो शाल्मलीतरौ ॥ द्वितीयः पुरुषो धन्वी नतनासः स्मृतो बुधैः ॥ नरकूर्ची तृतीयस्तु चंडकुंचितमूर्धजः ॥ २७॥ गुरोःकुलं वांछति कन्यका स्त्री कन्या हकाणःप्रथमःप्रदिष्टः॥पुष्यप्रपूर्णेन घटेन पिष्टा नीलांबरैवं मुनिभिः प्रदिष्टः ॥२८॥ श्यामो द्वितीयः पुरुषो हकाणो विस्तीर्णवस्त्रो धृतलेखनीकः ॥ धन्वी तृतीयो युवतिस्तु गौरी देवालये कुंभदुकूलहस्ता॥२९॥तौली तुलायां पुरुषो दृकाणो वीथ्यापणस्थः पुरुषो द्वितीयः॥ कुंभः करे गृध्रमुखो बिभर्ति कंदर्पमूर्तिः पुरुषस्तृतीयः ॥ ३० ॥ अथ यात्रायां प्रश्नः । चरेति ॥ १२ ॥ अथान्यत् । नवांशेति । अथैषां व्याख्या:वे कर्तव्या वर्तते । यस्य राशिनवांशे तत्कालग्रहो भवति तस्य नवांशकस्य योवर्णस्तदक्षरगग्रहस्य शुभस्य वा क्रूरशुभाक्षरगेन ग्रहेण तत्काले चंद्रो विद्धश्चद्भवति रज्जुवेधे सर्पाकारवेधे तत्फलं वाच्यमिति । राशिद्रेष्काणधिष्ण्येशे यस्य यस्याक्षरे स्थित इति। कस्य राशेरक्षरे चंद्रः धिष्ण्यस्य वा नवांशस्य वा तस्य तस्य फलं वाच्यम् ॥ १३ ॥ ॥ १४ ॥ तत्कालं फलयति । राशित इति । शाके १४४१ समये वैशाखसुदि ५ तत्कालीकृतश्चंद्रोयं ४ । १६ । ५३ । २० सिंहराशिस्त्र प्रश्ने लाभादौ हृतनष्टादौ वा सिंहराशितो ज्ञातं नष्टं वस्तु प्राग्दिशि जातं लाभप्रश्ने प्राग्दिशि लाभः गमनप्रश्ने भूगमनं चौर्यप्रश्ने सिंहस्य षष्ठे,नवांशे स कन्याया नवांशः रज्जुवेधे वेधन प्राप्तष्टकारवणः टकारो बुधवर्गवर्णः शुभक्षेत्रे चंद्रः न चौरेण हृतं लाभप्रश्ने लाभः यतः शुभाक्षर नक्षत्रे स्थाननिर्णयः पूर्वफल्गुनीनक्षत्रे चंद्रो विद्यते तेन हृतनष्टवस्तुनः स्थानं नक्षत्राद्वदति शास्त्रकाराणां मतम् । अधोमुखनक्षत्रं नष्टं वा हृतम् वस्तु यत् तभूमौ निपतितमस्ति मूषकप्रचारभूमौ । एवं स्थाननिर्णयः । अथ येन हृतं येन चौर्यण तस्य रूपम्। सिंहस्य द्वितीयो द्रेष्काणः तद्रपेन चौरेणापहृतं सिंहद्वितीयद्रेष्काणरूपं पुरुषो नताननासः। द्रव्यनाम नवांशकात व्याख्येयमास्ति । प्रकरणवशात नक्षत्रात्स्थाननिर्णयोयं ऊध्र्वमुखनक्षत्रे ऊर्ध्व वस्तु धृतमस्ति अधोमुखनक्षत्रे भूमौ निखातमस्ति तियङ्मुखनक्षत्रे समस्थाने वस्तु धृतम ॥ ५५ ॥ तथा च । मूलमिति ॥ १६ ॥ १७ ॥ १८ ॥ अथ द्रेष्काणरूपमाह । कृष्ण इति ॥ १९ ॥ २० ॥२१॥ २२ ॥ २३ ॥ उद्यानस्थ इति॥२४॥२५॥२६॥सिंहाद्य इति ॥२७॥ मुरोः कुलमिति ॥२८॥२९॥ तोलीति॥३०॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy