________________
जयलक्ष्मीटीकासमेता। (१३९) अहिबलचक्रे च सर्वत्र तत्कालकरणे भुक्तघटिकाः सप्तविंशतिभिर्गुणिताः षष्टया पुनविभजेत् भुक्तनक्षत्राणि लभ्यते तानि सप्तविंशतिभिः शेषयेत् शेषभुक्तं भोग्यं भोग्यचन्द्रो वर्तते ॥ अत्र प्रकरणे कर्तव्यमाह ॥ स्वभुक्तनाडिसंयुक्तं द्विघ्नं नवहृतं त्रिधा । स्वभुक्तनाडिसंयुक्ते सति यावत्संख्याका नक्षत्रस्य याता घट्यस्ता द्विगुणितास्ताभ्यो नन्देन९ लब्धभागाःशेष षष्टया संगुण्य लब्धाः कलाः शेषात्पलानि त्रिधा फलं ग्राह्यम् अत्रोपपत्तिः ॥ सप्तविंशतिनक्षत्राणां विंशत्यधिकं षोडशशतं घटिकाः १६२० द्विघ्नं ३२४० चत्वारिंशदधिकं द्वात्रिंशच्छतं अस्मानंदहृताः प्राप्ता भगणाः ततः अहोरात्रघटयः षड्गुणिताः भगणा भवंति ॥ अतः षड्गुणितास्तत्र युज्यंत इति तात्कालिककरणेऽस्मिन्नुपपत्तिः अंशेभ्यस्तत्र त्रिधा फलं उदयादिष्टघाटकाः प्रश्नांतजाः षड्गुणितास्त्रिधा फलमध्ये त्रिंशस्थाने योजितास्त्रिशता विभज्य लब्धा राशयो द्वादशभिः शेषिताः एवं कृते राश्यादिकश्चंद्रस्तात्कालिको भवति ॥ तत्र पुनः कर्तव्यता ॥ तत्रांशाः षष्टया गुणिताः राशीनपास्य कलायुता द्विशत्या भागे २०० लब्धांशाः एवं कृते अंशजश्चंद्रो नवांशस्थो जातो भवति ॥ १॥ अथ विचारः ॥ दिनेंद्विति ॥२॥ शशांकवादिति चन्द्रवत्सर्वखेटाः यदि तत्कालजा न क्रियन्ते तदा पश्चादुक्तम् । क्रूरविद्ध विद्धो वा चंद्र इति वचनात् असमर्थः भवतिाराश्यादिचंद्रात् उक्तप्रक्रियया नक्षत्रस्य ज्ञातव्यं चरणम् अथ कस्मिन्नक्षत्रचरणे चन्द्रः कस्मिन्नवांशे कस्मिन्द्रेष्काणे वा इत्याकांक्षया करणम् । राशयस्तत्कालचन्द्रस्य त्रिंशद्गुणाः तत्रांशा युताः अंशाः षष्ट्या गुणिताः अधःकलायुताः आभ्यः कलाभ्योऽष्टशत ८०० भागे लब्धानि भुक्तनक्षत्राणि शेषकलाभ्यो द्विशत्या भागमपहृत्य वर्तमाननक्षत्रस्य भुक्तचरणाः शेष तत्कालवर्तमाननक्षत्रस्य चरणाःएवं कृते चन्द्रे ज्ञातेस्मिन्नक्षत्रे नक्षत्रचरणे वर्तते चन्द्रः। अथ नवांशज्ञानम् । भुक्तराशीनपास्य अंशास्त्रिंशाद्याः षष्ट्या गुणिताः ६०कलायुताः कलाभ्यो द्विशत्या२००भागमपहत्य लब्धं भुक्तनवांशाः शेषं तत्कालवतेमाननवांशस्य कलाः । अथ द्रेष्काणज्ञानम् । नवांशज्ञानोपायेंशस्य कलास्ताभ्यः ६०० भागमपहृत्य द्रेष्काणा लभ्यन्ते शेषं वर्तमानद्रेष्काणकलाः ततोवस्था निरीक्षयेदिति । अथावस्थाज्ञाने उपायो लिख्यते । अत्रावस्थाज्ञानोपायो न प्राप्तः। अथ संहितायां श्रीपतिः। "राशौ राशौ द्वादशेंदोरवस्थाः प्रोक्ताः कश्चित्सूरिभिः शेषिताद्या” इति । तत्र अवस्था द्वादश । प्रवासाख्या? च नष्टाख्या२मृताख्या३च जया तथा ४॥ हास्या५रतिस्तथा क्रीडा ७ सुप्ता ८ भुक्ता ९ज्वरा १० तथा॥कंपिता ११ सुस्थिरा १२ राशौ राशी मेषादयः क्रमात् । मेषे द्वादशावस्था वृषे च मिथुनादावाप तत्र चन्द्रस्य तत्कालभुक्तराशीन् अपास्य वर्तमानराशिकलासार्धशतेन १५० भागमपहृत्य भुक्तभोग्यावस्था लभ्यते । अथोदाहरणम् शके १४४१ समये वैशाखशुक्ले ५।२४।५० मृ.२० चन्द्रवावासरे । अथ द्वादश १२ घटिकोपरि तत्कालचन्द्रकरणं तत्काले मृगशिरोनक्षत्रस्य प्रभुक्तघटिका द्विपंचाशत् ५२ भुक्तनक्षत्राणि चत्वारि ४ षष्टिहतानि जातानि २४०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com