________________
(१३८)
नरपतिजयचर्याणक्रमतः कृशमध्या ज्ञातव्याः। यो द्रेष्काणपतिस्तस्यैव कृशमध्यवलाधिकत्वम् ॥२८॥ पंक्तियुक्त्यति ॥ अस्य व्याख्यानं पूर्वमेव व्याख्यातम् ॥ २९ ॥ नामसाधने विधिमाह। उदयास्तेति । पश्चादुक्तं नामसाधनं नरपतिजयचर्याकर्तुरुदयास्तमये द्रव्यमित्यस्य श्लोकस्थार्थोवगंतव्यः । द्रेष्काणवृद्धया प्रवदन्ति नामेत्यादयः श्लोका मयोक्ताश्चतुर्णा चराणां वर्णैः स्थिराणां वणः स्थिराणां चतुर्णा वर्णः द्विस्वभावादिकानां चेति चरादयो राश्यश्चतुर्वेव केन्द्रस्थिता भवंति ॥ तत्रोदयास्तमययोर्यावन्तो नवांशवर्णाश्चंद्रवेधे प्राप्यते तैर्वणस्तु नाम साधयेत् ॥ चतुर्थराशिनवांशवणश्चौरनाम साधयेत् ॥ दशमराशेनवांशवर्णाश्चंद्रवेधे प्राप्यन्ते तेवणैस्तु स्थाननामतस्तस्मिन् स्थाने धृतमस्ति ॥ ३० ॥ वर्गाशकादिति ॥३१॥ अथ वस्तुप्राप्तिःअप्राप्तिर्वा ॥ प्राप्तव्यवस्तुनःकालमाह ॥ दंडाहेति ॥ यदर्गवर्णगश्चंद्रस्तस्य वर्गस्य यः कालः स कालो वाच्यः ॥ करवाक्षरेण ज्ञातं वस्तु चौरहृतं तेन अवर्गेण दिनं कवर्गेण पक्षः पर्वर्गणान्दाः तेन किं शुभग्रहयुते चंद्रे दृष्टे वा प्राप्तव्यम् ।क्रूरग्रहयुते दृष्ट न प्राप्तिः॥ तेन किंशुभपापयोबलावलं पापग्रहबलाधिक्यात् । तन्न प्राप्तव्यं शुभाधिक्ये प्राप्तव्यमिति ॥ लग्ननवांशकायावत्संख्ये चंद्रस्तावत्संख्याकालस्य एकः पक्षःअपरःपक्षःवर्णाश्चैकांतरक्रमात् वर्गस्य नवांशवर्णानांमध्ये यावद्वर्णाक्षरे चंद्रस्तावसंख्या लाभो वा पुस्तकेंद्रेणेति पुस्तकानार्मिद्रः नरपतिजयचर्यापुस्तकं यत्तस्येंद्रः अत्र यदुक्तं तत्र प्राप्तम् अयमर्थस्ताजककारेणापि प्रोक्तः कुत्रापि द्वितीयः पाठो दैशिकद्रेणेति दैशिको ज्योतिषी दैववित् तेन यदुक्तं स च कालः ॥ ३२ ॥ एतत्सर्वमिति ॥ ३३॥ इति प्रथमपरिच्छेदस्तुंबुरावर्ते ॥
अश्विन्यादींदुभुक्तानि भानि षष्टिहतानि च ॥ स्वभुक्तनाडीसंयुक्तं द्विघ्नं नंदयुतं त्रिधा ॥ दिनेदोर्भुक्तभागादि जायते चेष्टकालिका ॥१॥ दिनदुभुक्तभागादि जायते चेष्टकालिकः॥ उदयादिष्टनाड्यस्तु षड्गुणास्तत्र योजयेत् ॥ त्रिंशद्भागातराश्यादिश्चंद्रस्तत्कालसंभवः ॥२ ॥ शशांकवत्सर्वखेटान्कुर्यात्तत्कालसम्भवान् ॥ तत्कालराशिनक्षत्रे द्रेष्काणे च नवांशके ॥ ३॥
अथ गणितमाह ॥ तत्कालकरणमाह । अथातः संप्रवक्ष्यामि तत्कालेंदुपरिस्फुटमित्याचारभ्य राजावस्थादिकौतुकपर्यंत एषामर्थानां प्रकटीकरणेऽसमर्थाः सर्वे वयमपि तथापि व्याख्यायंते प्रकरणवशात् अथैषां व्याख्याने व्याख्याते मूलभूतश्चंद्रस्तस्य तत्काले करणमाह अश्विन्यादीति । लाभालाभादिप्रश्नकाले उदयादिवटिकाः साध्यास्तत्काललग्नं च ततस्तत्कालदिने यावंति नक्षत्राणि चंद्रेण भुक्तानि भवति तानि षष्टया गुणितानि कार्याणि ॥ स्वभुक्तनाडीसंयुक्तमितितात्कालेष्टघटीपर्यंत वर्तमाननक्षत्रस्य यावत्यो घटिका भुक्ता भवंति ताभिर्घटिकाभिर्युक्तानि षष्टिगुणितानि नक्षत्रस्य यावत्यो घटिका भुक्ता भवंति ताभिर्घटिकाभिर्युक्तानि षष्टिगुणितानि नक्षत्राणि तत्संख्या घटिका चन्द्रभुक्तिया ॥ अनेन प्रकारेण भुक्तघटिकाः द्वादशारे च कार्याः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com