________________
जयलक्ष्मीटीकासमेता ।
( १३७ )
राशौ समनवांशोदये षडक्षरं नाम युग्ममपि द्विमूर्तिभे त्र्यक्षरं भवति पंचमाक्षरं द्विस्वभावविषमे समेऽथवा युग्मनाम च चतुः षडक्षरं समद्विस्वभावराशौ चरांशोदये यक्षर नाम भवति । विषमद्विस्वभावराशी चरांशोदये पंचमाक्षरं द्विनामास्ति द्विस्वभावराशौ समे विषमनवांशोदये तदा चतुरक्षरं द्विनाम । विषमे द्विस्वभावराशौ समनवांशोदये तदा द्विनामषडक्षरं विद्यते । एषा परिपाटी ॥ २४ ॥ अथ वर्णन्यासमाह । आद्येति । विलग्नात्प्रथमनामवर्णः प्राप्तः सवर्णः नाम्नि प्रथमं योज्यः । चतुर्थात्प्राप्तः सद्वितीयस्थाने । सप्तमातृतीयस्थाने । दशमालब्धश्चतुर्थे द्विगुणवर्णः त्रिगुणवर्णश्च देशविशेषनाम दृष्ट्वा योजयेत् । अथ ये कुशाग्रबुद्धयस्ते सविशेषं निरूपयन्ति ॥ २५ ॥
क्रूरक्षेत्रगते चंद्रे विद्याच्चोरस्य संभवः ॥ अवेधे सौम्यवेधे च नष्टं चौरविवर्जितम् ॥ २६ ॥ यत्संख्याः खेचराः क्रूराश्चंद्रवेधे व्यवस्थिताः ॥ तत्संख्यास्तस्करा ज्ञेयाः सहायाश्चांतराक्षरैः ॥ २७ ॥ रूपं द्रेष्काणरूपेण तस्करस्य प्रजायते ॥ द्रेष्काणक्रमतो ज्ञेयाः कृशमध्यबलाधिकाः ॥ २८ ॥ पंक्तियुक्त्या लिखेद्वर्णा संख्ययाष्टोत्तरं शतम् ॥ सर्पाकारो भवेद्वेधस्तेन नामानि साधयेत् ॥ ॥ २९ ॥ उदयास्तमये द्रव्यं चौरनाम रसातले ॥ दशमे च धनस्थानमेवं नामत्रयं भवेत् ॥ ३० ॥ वर्गांशकात्तु भूमानमष्टहस्तनिवर्त्तनम् ॥ अर्धक्रोशं तथा क्रोशं द्विक्रोशं योजनादिकम् ॥ ३१ ॥ दंडाहःपक्षमासतुषण्मासाब्दाः शुभाधिके ॥ वर्गाक्षरगते चंद्रे वर्णाश्चैकांतरक्रमात् ॥ यदुक्तं पुस्तकेंद्रेण ज्ञानं तत्कालचं - द्रतः ॥ ३२ ॥ एतत्सर्वं मयाख्यातमवस्थादिपरिस्फुटम् ॥ येन ज्ञानेन सर्वाणि सत्यतां यांति भूतले ॥ तत्कालचंद्रजं ज्ञानं भणितं स्तेयहेतवे ॥ ३३ ॥ इति प्रथमपरिच्छेदस्तुंबुरावर्ते ॥
अथ चौरचौराहृते नष्टज्ञानोपायमाह । क्रूरक्षेत्रगतेति । यत्र कुत्रचिद्रारिद्रेष्काणनवांशाक्षरगते चन्द्रे ज्ञाते सति सवर्णश्च क्रूरस्य भवति तदा चौरेणापहृतम् । क्रूरग्रहवेधगते चन्द्रे चौरेण वस्तु हृतम् । अवेधपापग्रहवेधरहिते सौम्यवेधे सौम्याक्षरगतेऽपि चंद्रे चौरेणापहृतम् । किंतु क्रूरक्षेत्रवर्णगे चंद्रे पापविद्धे चौरविवर्जितं नष्टं वस्तु ज्ञेयम् ॥ ॥ २६ ॥ यत्संख्येति ॥ चंद्रगृहांतरगैः क्रूराक्षरैः तत्संख्याः चौरस्य सहाया अन्तरे मिलिताः ॥ २७ ॥ रूपमिति ॥ यस्मिन्द्रेष्काणे नवांशे चंद्रस्तस्य द्रेष्काणस्य तद्रूपं यद्रूपं चौरस्य ज्ञातव्यम् । पत्रिंशद्रेष्काणानां रूपं यवनादिभिः कथितमस्ति ॥ द्रेष्का
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com