________________
(१३६)
नरपतिजयचर्याद्विनाम चौरस्य पूर्वोक्तनाम समेपि द्वितनौ द्विनामविषमाक्षरैरेव प्रथमद्रेष्काणे घ्यक्षरं त्र्यक्षरं द्विनाम माधवगोविन्देति । एवं द्वितीयद्रेष्काणे मिथुनधनुषोरकेतमस्य तदा पंचाक्षरौ नाम भवानीदासेत्यादि । तृतीयद्रेष्काणे सप्ताक्षरैर्दिनाम द्वारकानाथदासेति । एवं कन्यामीनयोरेकतमद्रेष्काणे यक्षरं नाम हरिहरेति । चतुरक्षरं देवदत्तेति यज्ञदत्तेति द्विनाम । तृतीयद्रेष्काणे षडक्षरं नाम द्विनामेति संप्रदायः । विषमौ मिथुनधनुषी । समौ कन्यामीने ॥२१॥ वर्गोत्तमात्मीयनवांशराशी नवांशनाथे द्विगणो हि वर्णः॥ वक्रोवसंस्थे त्रिगुणो ग्रहस्य त्रिनोऽसकृवित्रिगुणत्वलाभे ॥ २२ ॥ नीचास्तसंस्थस्य नवांशपस्य वर्णस्य लाभेपि वदंति हानिम् ॥ नामादिवर्णैः परिपाटिलब्धस्त्रि ३ पंच ५ सप्त ७ द्वि २ चतुर्थ४ षष्ठैः ६ ॥२३॥ यक्षरं समचरांशतोदये व्यक्षरं विषमचरांशसंस्थिते ॥ नाम चास्य चतुरक्षरस्थिरे निश्चयादसमके षडक्षरम् ॥२४॥आये द्वितीय त्रिचतुःपदेषु वर्णाः क्रमेणैव नियोजनीयाः॥ विलग्नतोयास्तनभस्थलेभ्यः प्राप्ता यथानामनि दैवविद्भिः॥२५॥
अन्यद्विधानमाह । वर्गोत्तमोत । स्वनवांशे स्वगृहे वर्गोत्तमे वा नवांशनाथे ये ये नवांशवर्णा प्राप्तास्तेषां नवांशाधिपानां वर्गोत्तमादिलक्षणे प्राप्ते सति तेषां वर्णानां विगुणत्वं कार्यम् । यथा मेषस्य प्रथमनवांशे चन्द्रः तेन चन्द्रेण सिंहस्यांतिमो नवांशवों वेधितः तेनैव धनूराशेरंतिमास्त्रयो वर्णाः प्राप्ताः कतटाः नवांशवेधवर्णा अमी। यदि भौमो वर्गोतमादिलक्षणे यत्र कुत्रापि राशौ तिष्ठति तथापि ककारद्वयं प्रामोति एवं गुरुतः । ततो बुधात्तु तटटौ वक्रोच्चस्थे सति त्रिगुणा वर्णाः। अथ द्वयोर्रेष्काणवेधे षडक्षर प्राप्तं द्रेष्काणवेधे द्वाभ्यां द्वाभ्यां द्रेष्काणवेधः । एकस्मिन् द्रेष्काणे चंद्रे द्वयोद्रेष्काणयोः षड्वर्णाः अत्रापि द्विगुणत्वम् । ततस्तृतीयप्रकारेऽपि एकस्मिन् चरनवांशे चंद्रः तदा चतुर्णा चरराशीनां चंद्रनवांशसमवर्णा ग्राह्याः । यथा मेषस्य प्रथमेशे चंद्रः तरशान्मेषकर्कटतुलामकराणां चरवर्णा लब्धा भवति । तत्र प्रथमनवांशवर्णाः । मेषे ककारो हिबुके यकारस्तुले चकारो मकरे पकारः । एते चत्वारो वर्णा लब्धाश्चरेषु स्थिरराशिषु चायमेव विधिः। द्विस्वभावचतुलपि द्वित्रिगुणत्वं पूर्ववदेषामपि ॥ २२॥ अथ प्राप्तवर्णानां हासमाह । नीचास्तति । प्राप्ताक्षरनवांशपो यदि नीचैस्तिष्ठति अस्तमितो वा तदक्षरं नाशमुपयाति शेषवणः शोध्यक्षेपविशुदैः परिपाटिलब्धैः नाम साधयेत् परिपाटिलब्धैः पश्चादुक्तैर्विषमसमनवांशक्रमैः ॥ २३ ॥ अन्यदाह । यक्षरमिति । समराशौ चरांशी चरांशोदये यक्षरं नाम साध्यम् । विषमचरराशिनवांशोदये व्यक्षरं नाम । समस्थिरनवांशोदये चतुरक्षरं नाम निश्चयावदेत् । स्थिर
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com