________________
जयलक्ष्मीटीकासमेता। (१३५) मृगे । जगौ दो ववौ दोघझौ ढकुंभे । क्षओढौ ऊयो धो भमौ धो नवैते झपे यावनाचार्यकोशा मयोक्ताः। नवांशक्रमेणोक्ता एते द्वादशारे चक्रे एव वर्गाः। अतएवोक्तं द्वादशारे, यद्वर्गवर्णगश्चंद्रस्तत्तद्वर्णयुतो भवेत् । रक्तवर्णी रविकुजौ शुक्लौ भार्गवशीतगू । पीतौ बुधगुरू कृष्णा ज्ञेयाः केत्वार्किराहवः । एते च चक्रवेधे एव कथिताः ॥ १६ ॥ १७ ॥ द्रेष्काणवेधः षट्त्रिंशदष्टोत्तरशताक्षरैः ॥ चंद्रवेधेन विज्ञेयं चौरनाम स्फुटं भवेत्॥१८॥ राज्ञो मनः स्त्रीशयनासनेषु स्वप्नाद्यवस्था रसभोजनेषु ॥ नपुंसकत्रीपुरुषाभिघाते चौरस्य नष्टस्य च चिंतितस्य ॥१९॥ लूकस्य मुष्टे«दयस्थितस्य धात्वादियोनित्रितयस्य नाम ॥ परोक्षमंत्रस्य महीपतीनां नामानि मुद्रालिखनस्य चापि ॥२०॥ द्रेष्काणवृद्धया प्रवदंति नाम त्रिपंचसप्ताक्षरमोजराशौ ॥ तदन्यराशौ द्विचतुर्थषष्ठे नामाक्षरं वै द्वितनौ द्विनाम ॥ २१ ॥
अथ कर्तव्यमाह । द्रेष्काणवेधेति । तत्र चरा एव चत्वारःएषामेकतमस्य नवांशवणे तत्कालचंद्रो भवति तेन च चतुर्णा चरराशीनां चंद्राधिष्ठितनवांशसमवर्णा ग्राह्याः।अयमर्थः कुत्र प्राप्तः। तत्कालश्चंद्रश्चरांशेसोश एकद्वित्र्यादिकः । तत्समचतुर्णा चरनवांशाक्षराणीति कथं तदर्थमाह । अग्रिमग्रंथे । उदयास्तमये द्रव्यं चौरनाम रसातले । दशमे च धनस्थानमेवं नामत्रयं भवेदिति । अस्य एवं कल्प्य एवार्थः । एकस्मॅिश्चरे लग्ने चत्वारश्चरराशयः एवं स्थिरद्विस्वभावयोरपि । अथवा यत्र नवांशवणे चंद्रः तस्य नवांशवर्णस्य यत्र यत्र वेधस्ते सर्वे ग्राह्याः । द्रेष्काणबंधवेधेऽयं विधिः। चतुर्णा राशीनां द्वादशद्रेष्काणं प्रतिद्रेष्काणे त्रयस्त्रयोंशाः पत्रिंशदक्षराणि भवंति । यस्मिन्द्रेष्काणनवांशे चंद्रस्तद्रेष्काणवेधेन ये द्रेष्काणा लभ्यते षडक्षराणि लभ्यते चतुर्णी चरराशीनां चत्वारो वर्णाः । स्थिराणामेवं चत्वारः यद्येकस्मिन् स्थिरराशिगते चंद्रे तन्नवांशे तन्नवांशसमसंख्याक्षराणि । चतुर्णा स्थिरराशिनवांशवर्णा ग्राह्याः। एवं द्विस्वभावादिकानां चतुर्णामपि । द्वितीयप्रकारः । तैर्वणाम साधयेचौराणाम् । चौराणामित्युपलक्षणम् ॥ १८ ॥ तत्र नामसाधने विधिरयम् । अन्यत्र प्राप्ते विधिरत्रोपन्यस्यते । राज्ञो मन इति ॥ १९ ॥ २० ॥ द्रेष्काणवृद्धयेति । ओजराशीनां द्रेष्काणनवांशे यदि चंद्रातद्रेष्काणवृद्धया नामाक्षरसंख्या भवति। हृतनष्टादीनां एतदुक्तं भवति । मेषमिथुनसिंहादीनां विषमाणां द्रेष्काणनवांशे यदि चंद्रस्तदा त्रि ३ पंच ५ सप्ता ७ क्षरनाम भवति । तथा द्रेष्काणवृद्धिःप्रथमद्रेष्काणे घ्यक्षरं नाम द्वितीये पंचाक्षरं तृतीये सप्ताक्षरंतदन्यराशौ ओजादन्ये समराशौ द्विचतुःषष्ठाक्षरं द्रेष्काणवृद्धया नाम समराशिद्रेष्काणनवांशे यदि तत्काले चंद्रः तदा प्रथमद्रेष्काणे यक्षरं द्वितीये द्रेष्काणे चतुरक्षरं तृतीये षडक्षरं नाम । द्वितनौ द्विस्वभावद्रेष्काणनवांशे यदि चंद्रः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com