________________
नरपतिजयचर्या -
( १३० )
अथ तंबुववर्तचक्रम् ॥ अंशकुंडलीचक्रं लिख्यते ॥ द्वादशारं लिखेच्चक्रं नाडयेकैका त्रिधा पुनः ॥ पंचमे पंचमे स्थाने तिर्यग्वेधं तथा कुरु ॥
१ ॥ अष्टोत्तरशतं
चैव नाडीसंख्या प्रजायते ॥ अंशाक्षराणि चक्रस्य नाडिकाग्रे तु विन्यसेत् ॥ २॥ क्रूरवेधाक्षरे चंद्रो यदा त
म
ध
Shree Sudharmaswami Gyanbhandar-Umara, Surat
t
| वेधतुंबुरुचक्रम
मि
क
सि
त्कालसंभवः ॥ तदा तस्य फलं वक्ष्ये विवाहादौ शुभाशुभम् ॥३॥ विवाहे क्रूरवेधेन वैधव्यं च विशीलता ॥ यात्रायां च भवेद्धानिमृत्युभंगो महाहवे ॥ ४ ॥ सर्वहानिकराः क्रूरा ग्रहाः सौम्याः फलादाः ॥ यादिवेधो भवेद्यस्य मृत्युस्तस्य न संशयः ॥ ५ ॥ तत्कालेन्दुफलं सर्वं यदुक्तं रुद्रयामले ॥ गोपितं सर्वशास्त्रेषु मया चात्र प्रकाशितम् ॥ ६ ॥ स्वरविवरविशेषैश्चक्रबंधैस्तु भूम्या विविधफलपताकामातृकाभेदरम्यम् ॥ नरपतिकविचंद्रः सर्वशास्त्रेष्वधीती नरपतिजयचर्याशास्त्रमेतच्चकार ॥ ७ ॥ इति नरपतिजयचर्यायां स्वरोदये तुंबुर्वावर्तचक्रं अंशकुंडलीचक्रम् ॥
द्वादशारमिति । द्वादशारं लिखेच्चकामित्यनेन द्वादशारे चक्रे द्वादशैव रेखाः । तास्वेकैका त्रिधा कृता पत्रिंशदेखिका ३६ जायंते ततोग्रेप्युक्तमाचार्येण एकैकया नाड्या अष्टोत्तरशतं वेधो जायते । तत्कथं पूर्यत इति ये केचिदुदाहरणच केस्मिन्वेधं दर्शयंति अष्टोत्तरशतं ते धन्याः अत्र पाठ एव लिख्यते मया । अस्य द्वादशारचक्रस्य चक्रन्यासोऽक्षरन्यासश्च अष्टोत्तरशताक्षरोत्पत्तिनाऽसौ च तुंबुर्वावर्त्तचक्रे दर्शयिष्यामः। दिङ्मात्रंद्वादशारे दर्शितम् ॥ १॥ २ ॥३॥ ४ ॥ ५ ॥ ६ ॥ ७॥ इति नरपतिटीकायां द्वितीयं तुंबुरुचक्रम् ।
www.umaragyanbhandar.com