SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ जयलक्ष्मीटीकासमेता। (१२९) उच्चस्थाने स्थितं चंद्रं भौमादित्यौ प्रपश्यतः समस्थानेच गर्विद नीचस्थं राहुसूर्यजौ॥९॥बुधशुक्रौ त्रिकोणस्थं चद्रं तत्कालसंभवम्॥अन्यत्रस्थं न पश्यंति जात्यंधा इव खेचराः॥१०॥सौम्यहष्टिस्थिते चंद्रे सर्वसौख्यं प्रजायते ॥ करदृष्टिस्थिते पुंसां मृत्युहाँनिर्महद्भयम् ॥११॥ एवं शुभयुते चंद्रे सर्वसौख्यं प्रजायते ॥ क्रूरैः करफलं तत्र मिर्मिश्रं न संशयः ॥ १२ ॥ रक्तं पीतं सितं कृष्णं चंद्रे वर्णचतुष्टयम् ॥ ज्ञातव्यं च प्रयत्नेन प्रश्नकाले सदा बुधैः ॥ १३ ॥ रविभॊमः सितः सौम्यो गुरुः सौरी शशी तमः॥ वर्गेशा अकवर्गादौ ग्रहा ज्ञेया विचक्षणैः ॥१४॥ स्यातां रविकुजौ रक्तौ पीतौ जीवबुधौ ग्रहौ ॥शशिशुक्रौ सितौ वर्गों कृष्णत्वं राहुमंदयोः ॥ १५ ॥ यद्वर्गवर्णगश्चंद्रस्तस्य स्वामी त यो ग्रहः।तस्य वर्णेन वर्णत्वं शशांकस्य प्रजायते ॥ १६ ॥ रक्ते चंद्रे भवेयुद्धं कृष्णे मृत्युन संशयः ॥पीते शुभं विजानीयात्सिते शुभतरं फलम् ॥ १७ ॥ इति दृष्टितंबुरुचक्रम् ॥ अथ चंद्र ग्रहदृष्टिमाह । उच्चस्थानेति । भौमादित्यौ उच्चस्थानगतं चंद्रं पश्यतः यतस्तावू दृष्टी । समस्थानस्थं सिंहकुंभस्थं चद्रं जीवेंदू पश्यतः यतस्तौ समदृष्टी । नीचस्थं वृश्चिकस्थं चद्रं राहुशनी पश्यतः यतस्तावधोदृशौ ॥९॥ बुधशुक्राविति । शुक्रबुधौ चंद्रं तत्काले स्वमूलत्रिकोणस्थं पश्यतःवृषस्थतृतीयांशमतिक्रम्य स्थितम् । अथ कथमुक्तम् । त्रिकोणस्थं मूलत्रिकोणस्थं तत्रोच्यते यदि बुधशुक्रयोरेव मूलत्रिकोणं यदि स्वीक्रियते । तन्न संभवति । यतः संचारवशात्कन्यामकरस्थौ शुक्रबुधौ भवतः ताभ्यां वृषस्थश्चंद्रः त्रिकोणे भवति तत्र: उच्चस्थं चंद्रं तौ तिर्यग्दृशा न पश्यतः। तथा चान्यत् । सिंहकुंभस्थश्चंद्रः समगः संचारवशात् त्रिकोणगो भवति तथापि न। एवं नीचगोपि ताभ्यां त्रिकोणगो भवति तत्रापि न दृष्टिः एवं विचार्यमाणे पर्यवसन्नं मूलत्रिकोणस्थं चद्रं बुधशुक्रौ पश्यत इति । उच्चनीचसमस्थानस्थे चंद्रे ऊर्ध्वसमाधोदृष्टिग्रहाणामेव दृष्टिरुक्ता । अन्यथा ब्रह्मयामलादौ अत्र चक्रे ग्रहदर्शनं चंद्रे यदुक्तं तत्र दूषणमेव स्यात् बुधशुक्रदृष्टे सति आचार्यस्यापि दोषः संपद्येत । जात्यंधा इव खेचरा इति वचनात् ॥ १० ॥ सौम्यदृष्टीति ॥ सुगमम् ॥ ११ ॥ १२ ॥ १३ ॥ १४ ॥ ॥ १५॥ १६ ॥ १७ ॥ इति स्वरोदयटीकायां जयलक्ष्म्यां तुंबुरुचक्रम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy