________________
जयलक्ष्मीटीकासमेता ।
( १२७ )
ज्ञेयाः ॥ १२ ॥ अथ गुणाकारमाह । गुणाः शैलेति ॥ १३ ॥ अथ करणमाह । तत्काद्विति । अत्रोदाहरणमाह । मेषद्वितीयनवांशे चन्द्रः २ तस्य कृति ४ वृषराशिध्रुवः सप्त तेन सहैकादश ११ जाताः पश्चाद्वषगुणाकारैः सप्तभिः ७गुणिते जातं सप्तसप्ततिः ७७ ॥ १४ ॥ अथ भागहारमाह । मूलांकैर्भाजयेत्सुधीरित्यनेन तन्मूलांकभागहारमाह । षष्टिर्बाणेति । अस्य कृति २५ दिनार्थं सूर्य ध्रुवः १२ युतः ३७ दिनार्थ रविगुणकेन गुण्यं जातं २५९ शुक्रभागहारेण लब्धं दिन २ शेष ७ घटिकार्थं चंद्रध्रुवः ७ अस्य कृति ४९ ध्रुवयुता ५६ चंद्रगुणकेन गुणितं २२४ शुक्राहारेण भक्तं लब्धं १८ तत्र शुक्रस्य नवांशः प्रश्ने तत्र शुक्रस्य भागहारा द्वादश १२ भाज्यराशितो भागहरेण लब्धं षट् ६ शेषं ५ तत्रोत्तरं प्रश्नस्य लब्धप्रमाणेन षण्मासे व्यतीते सप्तममासस्यैकविंशति २१ दिने व्यतीते द्वाविंशदिनस्याष्टादश १८ घटिकाभ्यन्तरे लाभः । अयं प्रश्नविशेषः । एवं पापांशे चन्द्रे न लाभः कियदवधि न लाभः तद्गुणाकार भागहारलब्धेन वदेत् फलं तु यद्गृहस्य नवांशा वर्णा भवन्ति तद्वर्णवशात् । एकपक्षेण च मासेनेत्यादिना फलं वदेत् नात्र विकल्पना शुभाशुभफलैः ॥ १५ ॥ १६ ॥ १७ ॥ प्रश्नकालेति ॥ १८ ॥ इति नरपतिजयचर्याटीकायां जयलक्ष्म्यां द्वादशारतुंबुर्वावर्तः ।
प्रस्तारे द्वादशारे च ऋक्षाक्षरक्रमेण च ॥ नवांशराशिमार्गेण चक्रं भवति तुंबुरुम् ॥ १ ॥ यत्र मेषादिराशिस्थस्तत्कालेंदु ः प्रजायते ॥ ग्रहदृष्टिवशात्सर्व ज्ञेयं तस्य शुभाशुभम् ॥ २ ॥ त्रिदशे पंचमे धर्मे चतुर्थाष्टमसप्तमे । पादवृद्धया निरीक्षते प्रयच्छंति तथा फलम् ॥ ३ ॥ ऊर्ध्वदृष्टी च भौमार्के केकरौ बुधभार्गव ॥ समदृष्टी व जीवेंद्र शनिराहू त्वधोमुखौ ॥ ४ ॥ मेषो वृषो मृगः कन्या कर्कमीनतुलास्तथा ॥ आदित्यादिग्रहेषूच्चा नीचा यस्तस्य सप्तमः॥५॥परमोच्चा दिशो १० रामा ३ अष्टाविंशास्तिथींद्रियाः ॥ सप्तविंशास्तथा विंशाः सूर्यादीनां तथांशकाः ॥ ६ ॥ परमो - ञ्चात्परं नीचमर्धचक्रांतसंख्यया ॥ नीचस्थानात्क्रमेणोच्च उक्तः सर्वत्र खेचरः ॥ ७ ॥ उच्चान्नीचाद्यच्च तुर्य समस्थानं तदुच्यते ॥ उच्चनीचसमस्थाने चंद्रं ज्ञात्वा फलं वदेत् ॥ ८ ॥
अथ प्रकरणवशान्मुरजबंधरज्जुवेधकरणचक्रं व्याख्यायते । प्रस्तारेति । द्वादशारे गान्यक्षराण्युक्तानि तानि चतुश्चतुः कृत्वा अश्विन्यादिचरणेषु दत्तानि नक्षत्राणां चरणा एव नवांशाः । तन्मार्गेण तुंबुरुचक्रं भवति ॥ १ ॥ यत्र मेषादीति । यस्य राशिनवांशे प्रश्नकाले तत्कालचंद्रो भवति । स च येन ग्रहेण दृष्टः एवंविधाचंद्रात्प्रश्नफलं वदेत् ॥२॥ अथ दृष्टिः त्रिदशेति । सुगमम् ॥ ३ ॥ ऊर्ध्वदृष्टीति । बुषभार्गव करौ कोर्थः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com