________________
(१२६)
नरपतिजयचर्यापापग्रहस्थ वा ज्ञाते सति कर्तव्यमाह । कूरक्षेत्राक्षरेति । प्रस्तारे अथोदाहरणम् । शाके १४४२ समये वैशाखसुदि पंचम्यां मृगशिरानक्षत्रे घटी २० चन्द्रवासरे घटीद्वादशके प्रश्नः केनापि कृतो ममलाभः कदा भविष्यतीति । तद्विचारः-तत्र मृगशिरोनक्षत्रस्य भुक्तघटिका द्विपंचाशत् सप्तविंशतिभिर्गणिते जातः १४०४ एभ्यः षष्टया लब्धं त्रयोविंशति २३ भुक्तनक्षत्रं पुनस्तत्राश्विन्यादिभुक्तनक्षत्राणि चत्वारि तैर्लब्धं योजितम् २७ सप्तविंशतिः शेषं २४ चतुर्विंशतिः पंचदशभिर्भागे लब्धचरणः १ एकः तेन चंद्रो जातः तत्कालेविन्याद्वितीयचरणेस्ति चंद्रः । अश्विन्या द्वितीयचरणे मेषराशिद्वितीयो नवांशः स च वृषराशिनवांशः तस्याधिपः शुक्रस्तस्य वर्गश्चवर्गः तद्वर्गस्य वणेः प्राप्तश्वकारः तेन शुभनक्षत्रे शुभं ज्ञेयं प्रस्तारे चंद्रनिर्णय इति वचनात् । लाभप्रश्ने लाभो भविष्यतीति प्रश्नार्थः ॥९॥ १०॥ नाडी फलौ यशौ वर्गों दिने वर्गफलोदयः॥ कपक्षेण च मासेन टवर्गेण ऋतुं वदेत् ॥ अयने तपवर्षेण फलं ब्रूयाद्विचक्षणः ॥ ११ ॥ चतुस्था मुनयः ७।७।७।७। सूर्याः १२ सप्त ७ नंदा ९ गुणे ३षवः ५॥मासाः१२ शैलाइना १२ स्तत्त्वा २५ राशीनां च ध्रुवा इमे ॥ १२॥ एते राशिध्रुवाः॥ गुणाः३ शैलाः ७ युगाः४ पंच ५ सप्त ७ पंचा५द्रयो ७ युगाः ४ ॥ नागा ८ बाणा ५रसा ६ भूता ५ मेषादेशका मताः ॥ १३॥ तत्कालवंशककृर्ति कृत्वा ध्रुवयुता तथा ॥ स्वगुणैर्गुणयेत्पश्चान्मूलांकैर्भाजयेत्सुधीः ॥ १४ ॥ षष्टिर्वाणविधौ नेत्रे पक्षाग्न्यक्षिरविस्तथा ॥ चंद्रभूसुतशुक्राणां गुरुज्ञरविसौरिणाम् ॥१५॥ शैला नंदा रसा बाणा नंदाः शैला युगा दश ॥ इनाः १२ सप्त ७ रसा ६ भूता ५ मुलांकाश्च उदाहृताः ॥१६॥ अथ मूलांकाःक्वचित् ॥ घना १७ नखा २० श्विप्रकृति २१ युग्मेषु २५ दिक् १० रसाक्षि च २६ ॥ साधद्वौ २१३०। वेदवेदाश्च ४४ वस्वष्टि १६८ युग्मपंच च५२ ॥ १७॥ रसांगाः६६ खाब्धिशशिनो१४० मूलांका मुनिभाषिताः ॥ प्रश्नकाले विवाहे वा याने जन्मनि संगरे ॥ शशांकस्य फलं श्रेष्ठं सर्वशास्त्रेषु भाषितम् ॥१८॥ इति प्रस्तारचक्रम् ॥
तत्र कदाभविष्यतीत्याकांक्षया उच्यते । नाडीफलाविति ॥ ११ ॥ चतुस्थेति । मेषादीनां चतुर्णा प्रत्येकं सप्तवधुवका द्वादश सिंहस्य एवं क्रमेण द्वादशध्रुवकाःराशीनां
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com