________________
जयलक्ष्मीटीकासमेता। (१२५) ढवौ देयावीढौ भाग्ये झवौ तथा। धभौ भधावर्यमणि तथा हस्ते ङऔ णशौ । उणजडानममनाचित्रास्वात्योश्चतुश्चतुः । कचटपौ द्विदैवे तु मैत्रे ऊटचकाः स्मृताः। तपौ पतौ शक्रदैवे नैर्ऋते तु खछौ ठसौ । एठौ छखौ वारिदेवे वैश्वदेवे थफौ फथौ। विष्णुदैवे गजडहा एडौ वासवभे जगौ । दवौ वदौ शतरूं तु पूर्वाभाद्रे घझौ ढघौ । अढउभा अहिर्बुध्न्ये पौष्णे वर्णी धभौ भधौ । एवमष्टोत्तरशतं वर्णा राशिनवांशजा।न्यस्ताश्चतुश्चतुःसंख्या दस्रादिचतुरंघ्रिषु । चतुरक्षरसंयोगादश्विन्यादिक्रमेण चेत्यस्य श्लोकस्यार्थोपन्यासः। अत एवास्य द्वादशारचक्रस्य द्वादशारतुंबुर्वावर्त्तः ॥ तुबुरुर्देवगायकः तस्य य आवतः गाने गमकगाने सरिगमपधनिसप्तस्वराणां सप्तादिमवणैस्तत्तालमंद्रघोषोच्चारैयथावतस्तथेदं चक्रं नामाक्षरानयने तुंबुरुरिव नामाक्षराण्यालोडयति । एतान्येवाक्षराणि मुरजबंधेनरज्जुवेधेन आलोड्यंते नामानयने। अमुमर्थं मुरजवेधचक्रे व्याख्यास्यामि॥५॥
भौमं शुक्रं बुधं चंद्रं भानुं सौम्यं सितं कुजम्॥गुरुं सौरि शनि जीवं विदध्यात् कोष्ठकोपरि ॥६॥ कोष्ठाक्षरगतो ज्ञेयश्चंद्रस्ताकालसंभवः ॥ तदधीनं फलं सर्व लाभालाभं जयाजयम् ॥ ॥७॥ इष्टनाडयो हता धिष्ण्यैः २७ षष्टिभागातशेषके ॥ अश्विन्यादिंदुभुक्तेन युक्तस्तत्कालचंद्रमाः॥ ८॥ क्रूरक्षेत्राक्षरे चंद्रे न शुभं सर्वकर्मसु॥शुभक्षेत्रे शुभं सर्व प्रस्तारे चंद्रनिर्णयः॥ ॥९॥ अंशकेनांशकं गुण्यं ध्रुवयुक्तं कृतं पुनः ॥ स्वगुणैर्गणयेत्पश्चान्मूलांकैर्भाजयेत्ततः॥ १० ॥
अस्य प्रयोजनमाह । भौममिति । राशिपतित्वन्यासः॥ ६ ॥ कोष्ठेति । लाभालाभादि जयपराजयादिप्रश्नस्तत्कालचंद्राधीन एव ॥७॥ तत्कालीकरणं चन्द्रस्याह । इष्टनाड्येति । एकैकं नक्षत्रं प्रति १ घटी २ पलं १३ अक्षरं २० भोगः उक्तंच । दिने धिष्ण्यांतरैकैके धिष्ण्यं प्रतिघटीद्वयम् । त्रयोदशपलानीह भोगो विंशतिअक्षरः। उक्तं च । “राशिसपादधिष्ण्यद्वयं पंचघटीप्रमाणम्। एकैकांशे त्रयस्त्रिंशत्पलान्यक्षविंशतिः। प्रश्नकाले वर्तमाननक्षत्रस्य यावत्यो घटिकाश्चंद्रेण भुक्तास्ता इष्टनाड्यो हता धिष्ण्यैः। सप्तविंशतिभिर्हताः गुणितास्तेभ्यो गुणितेभ्यः षष्ट्याप्तशेषं च द्विस्थं फलं जातं तत्र लब्धे यावंति नक्षत्राणि चन्द्रेण भुक्तानि तानि संयोज्य तदनुमानेन अश्विन्यादिभुक्तं चन्देण तत्काले ज्ञेयम्।शेषे भुक्तनक्षत्राग्रिमनक्षत्रे चन्द्रो वर्तते । यदि च लब्धभुक्तयोगे सप्तविंशत्यधिकं जायते तदा सप्तविंशति वंशोधयेत् । ततः किं कर्तव्यमिति । शेष पंचदशभिविभज्य लब्धं यस्मिन्नक्षत्रे तत्काले चन्द्रोस्ति तचरणा लब्धा भवन्ति । तेन लब्धचरणा एव भुक्तनवांशाः। ततो यस्य राशेस्तन्नक्षत्रं तस्मिन् राशौ तन्नवांशे चन्द्रो वर्तते। तन्नवांशस्य यदक्षरं द्वादशारचक्रे तद्राश्यधो दृश्यते ॥८॥तदक्षरं शुभग्रहस्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com