________________
(१२४) . नरपतिजयचर्यानवद्वादशके ताद्याः शेषे पाद्या द्विकोष्ठ के ॥ ४ ॥ चतुरक्षरसंयोगादश्विन्यादिक्रमेण च ॥ ज्ञेया नवांशका वर्णा मेषादौ राशिमंडले ॥५॥
अथ प्रस्तारद्वादशारचक्रम् । अस्मिन्दादशारप्रस्तारे उपरि द्वादशपंक्तिषु मेषाद्या राशयो लेख्याः। ततः स्वस्वाधः सर्वराशीनां नवधा नवांशा लेख्याः। तत्र नवांशलिखनम् । अजमकरतुलाकुलीराया इत्यादि प्रक्रियया मेषादिराशिषु नवधा नवधाअधः कोष्ठेषु नवसु लिखेत् । यथा मेषे मेषादिनवधा अंशाः वृषे मकरादिनवांशाः मिथुने तुलादि कर्कटे कर्कटादि नव । एवमजमकरतुलाकुलीराद्या इति क्रमेण सिंहादिमीनांत लिखेत ॥ १॥२॥ कवर्गमिति ॥ ३ ॥ यशवर्गाविति । एषामों यो ग्रहो यस्य वर्गाधिपः तान्वर्गवर्णान् लिखेत् । नवांशराशिपवर्गवर्णान् लिखेत् । यथा “मेषवृश्चिकयोभीमः शुक्रो वृषतुलाभृतोरिति । राश्यधिपस्य ये वर्गाः अकचटतपयशाष्टौ वर्गाणामधिपा रविकुजशुक्रचांद्रिगुरुशनयः-यशवर्गाधिपश्चंद्रः । एतेषां वर्गाणामक्षराधिपस्वस्वाधिपनवांशराशिषु नवधा नवधा लिखेत्।तत्र मेषराशेरधिपोभौमः तस्य वर्ग:कवर्गः कवर्गस्य नववर्णाः कखगघङाः कखघांताः मेषनवांशराशिस्थानेषु यत्र यत्र राश्यधः स्थितेषु तत्र तत्र नवधा कवर्गादीन् घांतान् प्रथमं लिखेत् । एवं कवर्ग नवधा वृश्चिकनवांशराशिषु न्यसेत् । एवं कृते कवर्ग नवधा लिख्य कोष्ठके प्रथमेष्टके इत्यर्थः संपन्नो भवति । एवं चवर्गवर्णान् नवधा वृषनवांशराशिषु सर्वेषु लिखित्वा पश्चात्तुलाराशिनवांशेषु चवर्ग लिखेत् अयमर्थः । लिखनक्रमश्च “यशौ वर्गों चतुर्थे च अवगै पंचमे तथा" । अनयोरर्थवशायाख्यातः । ये तु पुनः कवर्ग नवधा विलिख्य कोष्ठके प्रथमेष्टके इत्यर्थेन के मेषराशेरधः रवं वृश्चिकराशेरधः ग मेषाधोघं वृश्चिकाधः क्रमेण ये वर्गवर्णान् लिखति । तेपि साधुप्रक्रियया लिखति । नवधा मेषाधः वृश्चिकाधः क्रमेण ये वर्गवर्णा नवधा वृश्चिकाधस्थाः कवर्गवर्णाः नवाक्षरनवांशेषु स्थितश्चंद्रो रक्तवों भवति । अयमर्थों दृष्ट्या स्थिरीकृतः । सा प्रक्रिया यवनाचार्योक्ताक्षरोत्पत्तिकोशेगस्ति तत्र मया दृष्टा । कवर्ग नवधा यो वर्णविन्यासो मया मेषादिमीनांतान नवांशराशीन् ऋजुपंक्त्यां लिखित्वाष्टोत्तरशतसंख्यया प्रथमं मेषाख्यराशिनवांशेषु नवधा कवर्गवर्णा एव लिखिताः तथा चवर्गवर्णान्नवधा वृषाख्यराशिनवांशेषुप्रथमं लिखिताः। एवं मिथुनादिषु प्रथमम् । यस्य यस्य द्वौ राशी एवं वर्णविन्यासं कृत्वा पश्चाद्यशापायांता इंदोर्नव । एवमवर्गाणां नव सूर्यस्य अनेन सह अष्टोत्तरशतं वर्णानां संख्या ॥४॥ चतुरक्षरेति। एतेषां वर्णानांचतुभिश्चतुर्भिः कृत्वा अश्विन्यादिचतुश्चतुश्चरणेषु सर्वे वर्णाः सप्तविंशतिनक्षत्रेषु दत्ताः । तद्यथा । “कचौटपावश्विनीषु भरण्यंघ्रिष्वटौ चकौ । तपौ पतौ कृत्तिकासु रोहिणीषु खछौ ठहैं। आठौ छखौ मृगे देयौ शिवे देयौ थफौ फयौ । गजौ डलावदितिभे पुष्ये इडजगाअपि । दबौ बदौ सर्पदैवे वर्णाः ककांतगा इमे । पैत्रे घझौ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com