________________
هم به مره د مد به مرو
जयलक्ष्मीटोकासमेता।
(११९) अथ संघट्टचक्रम् ॥ अश्विन्यादि ॥संघचक्रम् ॥ लिखेञ्चकं सप्तविंशतितारकाः ॥ त्रिकोणं नवभिर्वेधः कर्तव्यस्तियः गाकृतिः ॥१॥ अश्विनीरेवतीवेधो वेधश्चाश्विनिज्येष्ठयोः ॥ मघापौष्ण्य मघाश्लेषा आश्लेषामूलयोस्तथा ॥ २ ॥ एवं संघट्टचक्रे |
ज्ये अ वि खा चि ह उ पूम स्मिन् कार्या ऋक्षगता ग्रहाः ॥ भूपनामःसंघट्टे युद्धं भवति नान्यथा ॥३॥ यस्य भृपक्षसंघद्दे विद्धं भं यस्य भूपतेः॥ तस्यापि भं यदा विद्धं तत्तयुद्धं समादिशेत् ॥ ४॥ अश्विन्यादिकसंघहे भावि युद्धं समादिशेत् ॥ यदा कुत्रेति संग्रामो वह्निभाये प्रजायते ॥ ५॥ निर्वेधे सौम्यवेधे च युद्धं नास्ति नरेशयोः॥ क्रूरवेधे भवेयुद्धं तत्काले घोरदारुणम् ॥ ॥६॥ शनिभौमार्कपातानां शशिविद्धं तु यदिने ॥ तदिने जायते युद्धं तत्काले घोरदारुणम् ॥७॥ग्रहवेधयुते पाते पातोपग्रहसंयुते॥ घातपातसमायोगे संग्रामं दारुणं भवेत् ॥८॥ युद्धकांक्षी भवेद्राजा यस्य क्रूरसमं भवेत् ॥ युद्धद्वेषी भवेत्सौम्यैस्तद्वद्वेषविवर्जितः ॥९॥ सौम्य विभागेन मित्रामित्रक्रमेण च ॥ वक्रातिचारगत्या च युद्धमत्रास्ति नास्ति च ॥१० ॥ आदित्यश्च यदा चंद्र एकरेखागतो यदि ॥ तद्दिने जायते युद्धं महाशस्त्रनिपीडनम् ॥ ११ ॥ कुजराहोर्यदा वेधश्चंद्ररेखाग्रसंस्थितः ॥ तदिने चाग्निपातश्च लोहपातो न संशयः ॥ १२ ॥ बुधशुक्रौ यदैकत्र तत्र चेत्संगतः शशी ॥ तदा वृष्टिं विजानीयाद्विद्युत्पातं न संशयः ॥ १३ ॥ इन्द्वर्कशनिराहणामेकनाडी यदा भवेत् ॥ तहिने दुर्दिनं ज्ञेयमभ्रच्छन्नं न संशयः॥ १४ ॥ राह्वर्ककुजसो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com