________________
(११८)
नरपतिजयचर्यामष्टौ । तत्र राजगृहे सिंहद्वारोपरि माला निबध्यते पुष्पमयी आम्रपल्लवमयी वा । उपरि च तोरणेनालंक्रियते ॥ १॥२॥ अथ फलम् । निर्गमोते ॥ ३ ॥ ४ ॥ ५ ॥ ॥६॥७॥ ८ ॥ इति नरपतिजयचर्याटीकायां जयलक्ष्म्यां तोरणचक्रम् ।
-११
अथ शशिसूर्यकालानलचक्रम् ॥ शशिसूर्यकालानलचक्रम् ॥ द्वादशारं लिखेचक्र मेषादिद्वादशान्वितम् ॥ क्षेत्रयुग्मं च तत्रैव ज्ञेयं भास्करचंद्रयोः ॥१॥ सिंहादि मकरांतं च भानुक्षेत्रमुदाहृतम् ॥ कुंभादिकर्कपर्यंतं चंद्रक्षेत्रं न संशयः ॥२ ॥ याम्योपरि स्थितं यत्तु भानुक्षेत्रमुदाहृतम् ॥ पूर्वोत्तरस्थितं यत्तु चंद्रक्षेत्रं विनिर्दिशेत् ॥३॥ चंद्रक्षेत्रगते सूर्ये चंद्रे तत्रैव संस्थिते ॥ यायिनो विजयो युद्ध स्थायिनो भंगमादिशेत् ॥ ४ ॥ सूर्यक्षेत्रगते चंद्रे सर्ये तत्रैव संस्थिते ॥ यायी भंगं समायाति स्थायिनो विजयो भवेत् ॥ ५॥ सूर्ये सूर्यांगसंयुक्त चंद्रे चंद्रांगसंस्थिते ॥ तदा काले भवेत्संधियुद्धं तस्य विपर्यये ॥६॥व्यस्तगौ यदि चंद्राकौं संहारः सैन्ययोर्द्वयोः ॥ कर्त्तयाँ यदि चंद्राकौ संहारः सैन्ययोर्द्वयोः ॥ यात्रायां युद्धकाले च चक्रमेतद्विलोकयेत् ॥ ७॥ इति शशिसूर्यकालानलचक्रम् ॥
अथ शशिसूर्यकालानलचक्रमाह । द्वादशारमिति ॥ १ ॥ सिंहादीति ॥ २ ॥ याम्येति ॥३॥ चंद्रक्षेत्रगतति ॥ ४॥ सूर्यक्षेत्रगतेति । दक्षिणपश्चिमदिवस्थयोरपि यायिस्थायिनोः सूर्यक्षेत्रस्थयोरपि सूर्याचंद्रमसोः विशेषाद्भगजयौ ॥ ५॥ मूर्ये सूर्यागेति । यदि रविश्चंद्रगृहस्थो भवति चंद्रदिक्षेत्रस्थौ द्वौ । एवं चंद्ररविग्रही दिक्क्षेत्रगावपि तदा महाद्धं भवतीति विपर्ययार्थः ॥ ६॥ विपर्ययार्थमेव फलति । व्यस्तगाविति । "इंदौ तमोगारकमध्यसंस्थे चंद्रेण चेत्कर्तरिकारकौतु। अन्योन्यमध्ये शनिराहुमध्ये शौरिस्तयोस्तौ बलनाशनाय" ॥७॥ इति जयलक्ष्म्यां शशिसूर्यकालव्याख्यानम्।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com