________________
# नरपतिंजयचर्या
2
( ११६ )
स्यापि त्रिसंख्या ३ तकारस्यैकं १ वर्णानामेकादश ११ संख्या जाता । अथ स्वराणां संख्या | एकारस्यैकादश संख्या ११ यतः षोडशाक्षरवर्गः । एवं दत्त एषां मात्रास्वरोऽकारः । तेषां संख्या तिस्रः एवं मात्रास्वरसंख्या जाता चतुर्दश १४ मात्रासंख्या द्विगुणा २८ वर्णसंख्या चतुर्गुणा जाता ४४ तयोः संयोगे जाता संख्या द्विसप्ततिः ७२ ॥ अथ यज्ञदत्तस्य यकारस्यैका संख्या १ गकारस्य त्रि ३ संख्या यकारस्यैका १ दस्य त्रिसंख्या ३ तकारस्यैका १ एवं वर्णसंख्या एकत्र नव ९ तथा यज्ञदत्तनानि वर्णस्वराश्चत्वारोऽकारास्तत्संख्या चत्वारः ४ पृथक् स्वरसंख्या द्विगुणा ८ वर्णस्वरसंख्या चतुर्गुणा ३६ एवं षटत्रिंशत् तद्योगे चतुश्चत्वारिंशत् ४४ द्वयोः सप्तभिस्तष्टे शेषांको २ उभयोः शेषं द्वितयं गतं २ तत्र बलाबलम् । " साम्येन संधिराधिक्ये तयोहींनतया बधः । " इदं बलाबलम् । अथात्रैव पुनर्विशेषमाह । " किंचिच्छेपेत्र विषमे समे वापि पृथक् भवेत् । विषमे विजयो नूनमाधिक्येऽपि समे परे । " यदि द्वयोः सप्तशेषिते सति द्वयं विषमांकमेवावशिष्यते तदा यस्याधिकं स जयी भवति । द्वयोः समांकेऽवशेषिते सति यस्य हीनांकः स जयी भवति । अथ पुनर्विशेषमाह । " यथा शेषेत्र संख्याके चतुर्भिः शेषिते सति । विषमे हीनके हानिः समा हीने जयो भवेत् । ओजे समेऽधिके शेषे जयहानी पृथक् तयोः " योधयो राज्ञेोर्विषमेधिके जयः । समेधिके हानिः । " एतच्चक्रवरं प्रोक्तं सद्यः प्रत्ययकारकम् ” ॥ ८ ॥ ९ ॥ १० ॥ इति समरविजये आयचक्रम् । अथ सारतरं वक्ष्ये लंपटाचार्यभाषितम् ॥ जयपराजयौ येन नामोच्चारणतः स्फुटौ ॥ १ ॥ लग्नालग्नविभेदेन घोषा - घोषक्रमेण च ॥ प्रवेशनिर्गमाभ्यां च क्रमाज्जयपराजयौ ॥ २ ॥ पवर्गाश्चाप्युकारश्च लग्नाख्यानक्षरान्विदुः ॥ उक्तवर्णान्यवर्णाः स्युरलग्नाः परिकीर्तिताः ॥ ३ ॥ वर्गे त्रिचतुरा घोषाः पंचमाश्च स्वरास्तथा ॥ आद्या द्वितीया वर्णायामघोषाः शषसैः सह ॥ ॥ ४ ॥ वायुप्रवेशकालः स्यात् प्रवेशः श्वासनिर्गमः ॥ निर्गमाख्यस्ततो ज्ञेयो नामोच्चारणतो जयः ॥ ५॥ इति स्वरोदये वि
जयचक्रम् ॥
अथ सारतरमिति ॥ १ ॥ २ ॥ ३ ॥ ४ ॥ ५ ॥ इति विजयचक्रम ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com